संस्कृत-शब्दकोशः

यवजोद्भवं यवतैलं

यवतिक्ता

वाचस्पत्यम्

यवतिक्ता ||‍ स्त्री यवाकारं तिक्तं फलं यस्याः । शङ्खिन्यां राजनि० ।


शब्दकल्पद्रुमः

यवतिक्ता || स्त्री लताप्रभेदः । शङ्खिनीति यवेची इति च ख्याता । (यथा, सुश्रुते सूत्रस्थाने ४५ अः । “यवतिक्तातैलं सर्व्वदोषप्रशमनमीषत्तिक्तम् । अग्निदीपनं लेखनं मेध्यं पथ्यं रसायनञ्च ॥”)
तत्पर्य्यायः । महातिक्ता २ दृढपादविसर्पिणी ३ नाकुली ४ नेत्रमीना ५ शङ्खिनी ६ पत्रतण्डुली ७ तण्डली ८ अक्षपीडा ९ सूक्ष्मपुष्पी १० यशस्विनी ११ माहेश्वरी १२ तिक्तफला १३ यावी १४ तिक्ता १५ । अस्या गुणाः । सतिक्ता- म्लत्वम् । दीपनत्वम् । रुचिकारित्वम् । कृमि- कुष्ठविवर्णास्रदोषनाशित्वम् । रेचनत्वञ्च । इति राजनिर्घण्टः ॥



Correction: