यवतिक्ता
यवद्वीप
यवतैलं
शब्दकल्पद्रुमः
यवतैलं || क्ली (यवनिर्म्मितं तैलम् ।)
यवचूर्णादि- युक्तपक्वतैलविशेषः । तत्प्रकारं गुणञ्चाह । “यवचूर्णार्द्धकुडवं मञ्जिष्ठार्द्धपलेन तु । तैलप्रस्थः शतगुणे काञ्जिके साधितो जयेत् । ज्वरं दाहं महावेगमङ्गानाञ्च प्रहर्षणम् ॥” इति सुखबोधः ॥