शब्दकल्पद्रुमः
यवद्वीपः || पुं, (यवनामा द्वीपः इति मध्यपद- लोपिकर्म्मधारयः ।)
उपद्बीपविशेषः । यावा इति भाषा । यथा, —
“यत्नवन्तो यवद्वीपं सप्तराज्योपशोभितम् । सुवर्णरूप्यकं द्बीपं सुवर्णकरमण्डितम् ॥” इति वाल्मीकीये रामायणे किष्किन्ध्याकाण्डे ४० सर्गः ॥ * ॥
“अतः परं यत्नवन्तो भूत्वा सप्त- राज्योपशोभितं यवद्वीपं तथा सुवर्णद्बीपं विचेतव्यमिति शेषः । सुवर्णकरमण्डितमिति सुवर्णं कुर्व्वन्ति ये तैः शोभितम् ।” इति रामायणतिलकनामतट्टीका ॥