वाचस्पत्यम्
यवनिका || स्त्री यवन्त्यस्यां यु—ल्युट् ङीप् स्वार्थे क अत इत्त्वम् (कानात्) जवनिकायाम् अमरः ।
शब्दकल्पद्रुमः
यवनिका || स्त्री (युनात्यावृणोत्यनया । यु + ल्युट् । ङीष् । स्वार्थे कन् । टाप् ।)
जवनिका । इत्य- मरटीका ॥ कानात् इति भाषा । (यथा, भागवते । १ । ८ । १९ । “मायायवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥”)