वाचस्पत्यम्
यवनी || स्त्री यु—ल्युट् ङीप् । १ यवानीनामकोषधौ मेदि० । ङीष् । २ यवनभार्य्यायाञ्च । “यवनीमुखपद्मानाम्” रघुः ।
शब्दकल्पद्रुमः
यवनी || स्त्री (यूयते पच्यते भुक्तमनया । यु + ल्युट् । ङीप् ।)
यवानीनामकौषधिभेदः । इति मेदिनी । ने, ११२ ॥ (यवनस्य स्त्रीति । यवन + ङीष् ।)
यवनभार्य्या ॥ (यथा, रघुः । ४ । ६१ । “यवनीमुखपद्मानां सेहे मधुमदं न सः । वालातपमिवाब्जानामकालजलदोदयः ॥”)