वाचस्पत्यम्
यवफल || पु० यव इव फलमस्य । १ वंशे अमरः २ कुटजे यस्य फलमिन्द्रयवः । ३ जटामांस्याञ्च मेदि० ४ प्लक्षवृक्षे शब्दर० ।
शब्दकल्पद्रुमः
यवफलः || पुं, (यववत् फलमस्य ।)
वंशः । इत्य- मरः । २ । ४ । १६१ ॥ जटामांसी । कुटजः । इति मेदिनी । ले, १६२ ॥ (अस्य पर्य्यायो यथा, “कुटजः कूटजः कौटो वत्सको गिरिमल्लिका । कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि । इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
प्लक्षवृक्षः । इति शब्दरत्नावली ॥