वाचस्पत्यम्
यवमध्य || न० यव इव षध्यं यस्य । चान्द्रायणभेदे प्रथम- दिनादापञ्चदशदिनमेकैकग्रासवृद्ध्या, तदुत्तरं च आपञ्च- दशदित क्रमेणेकैकग्रासहान्या माससाध्ये व्रते तस्य मध्यदिवसानां हि बहुलग्रासबत्त्वेन यवमध्यतुल्यत्वम
शब्दकल्पद्रुमः
यवमध्यं || क्ली (यववत् मध्यं यस्य ।)
चान्द्रायण- प्रभेदः । यथा, —
“शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणन्तथा । यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति ॥” इति प्रायश्चित्ततत्त्वम् ॥ (पुं, यज्ञभेदः । यथा, शतपथब्राह्मणे । १३ । ६ । १ । ९ । “यवमध्यः पञ्चरात्रो भवति ॥” यवाकारमध्ये, त्रि । यथा, सुश्रुते चिकित्सा- स्थाने १ अध्याये । “शरावनिम्नमध्याश्च यवमध्यास्तथापरे । एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ॥”)