वाचस्पत्यम्
यविष्ठ || त्रि० अतिशयेन युवा युवन्—इष्ठन् यवादेशः । अतितरुणे ।
शब्दकल्पद्रुमः
यविष्ठः || त्रि (अयमेषामतिशयेन युवा इति । युवन् + इष्ठन् । “स्थूलदूरेति ।” यणादिलोपगुणौ ।)
अतिशययुवा । (यथा, ऋग्वेदे । १ । १४७ । २ । “वोधा मे अस्य वचसो यविष्ठ ।”)
कनिष्ठभ्रातरि, पुं, । इति हेमचन्द्रः । ३ । ११६ ॥ (त्रिष्वपि । यथा, भागवते । ३ । १ । ५ । “भ्रातुर्य्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥”)