संस्कृत-शब्दकोशः

यशस्विन् यशोदा

यशोद

वाचस्पत्यम्

यशोद ||‍ पु० यशो ददाति दा—क । १ पारदे राजनि० २ यशो- दातरि त्रि० । ३ नन्दगोपपत्न्यां स्त्री । “नन्दगोपगृहे जाता यशोदागर्भसम्भवा” देवीमा० ।


शब्दकल्पद्रुमः

यशोदः || पुं, (यशो ददातीति । दा + कः ।)
पारदः । इति राजनिर्घण्टः ॥ (क्लीवेऽपि- दृश्यते । यथा, वाराहे । “सुवर्णं रजतं ताम्रं रङ्गं यशोदमेव च । सीसं लौहञ्च सप्तैते धातवो गिरिसम्भवाः ॥”)
यशोदातरि, त्रि ॥



Correction: