संस्कृत-शब्दकोशः

यशोद यष्टि

यशोदा

शब्दकल्पद्रुमः

यशोदा || स्त्री (यशो ददातीति । दा + कः । टाप् ।)
नन्दपत्नी । यथा, श्रीभागवते १० स्कन्धे । “नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् । यशोदा वा महाभागा पपौ यस्यास्तनं हरिः ॥” (दिलीपमाता । यथा, हरिवंशे । १८ । ६० । “तेषान्तु मानसी कन्या यशोदा नाम विश्रुता । पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्म्मणः । राजर्षेर्जननी चापि दिलीपस्य महात्मनः ॥” यशोदातरि, त्रि । यथा, तैत्तिरीयसंहिता- याम् । ४ । ४ । ६ । २ । “यशोदां त्वा यशसि तेजोदां त्वा तेजसीति ॥”)



Correction: