संस्कृत-शब्दकोशः

यष्ट्याह्व यस्क

यस

वाचस्पत्यम्

यस ||‍ यत्ने दिवा० पक्षे भ्वा० वा श्यन् पर० अक० सेट् । यस्यति यसति संयस्यति संयसति अनुयस्यति । इरित् अयसत् अयासीत् अयसीत् । अय पुषादिरित्यन्ये उदित् क्त्वा वेट् । यसित्वा यस्त्वा यस्तः ।


शब्दकल्पद्रुमः

यस || इर् य उ यतने । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।)
इर्, अयसत् अयासीत् अयसीत् । अस्मात् पुषा- दित्वान्नित्यं ङ इत्यन्ये । य, प्रयस्यति । क्रम क्लम इत्यादिना केवलात् संपूर्ब्बाच्च अस्मात् श्यन् विकल्पात् यसति यस्यति संयस्यति संयसति । उ, यसित्वा यस्त्वा । यतनं यत्नः । इति दुर्गादासः ॥



Correction: