वाचस्पत्यम्
यस्क || पु० यस—क नेत्त्वम् । मुनिभेदे तस्य गोत्रापत्यं शिवा० अण् । यास्क तदपत्ये पुंस्त्री० निरुक्तकारके मुनिभेदे पु० । बहुषु अणो लुक् । यस्काः ।
शब्दकल्पद्रुमः
यस्कः || पुं, (यसति मोक्षायेति । यस् + क्विप् । संज्ञायां कन् ।)
मुनिविशेषः । इति मुग्धबोध- व्याकरणम् ॥ (यथा, आश्वलायनश्रौतसूत्रे उत्त- रार्द्धे । ६ । १० । १० । “यस्कवाधौलमौनमौकशार्क- राक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्याय- नानां भार्गववैतहव्यसावेतसेति ॥”)