संस्कृत-शब्दकोशः

याच याचत्

याचक

वाचस्पत्यम्

याचक ||‍ त्रि० थाच—ण्वुल् । याच्ञाकारके अपरः ।


शब्दकल्पद्रुमः

याचकः || त्रि (याचत इति । याच् + ण्वुल् ।)
याच्ञाकर्त्ता । तत्पपर्य्यायः । वनीयकः २ याचनकः ३ मार्गणः ४ अर्थी ५ । इत्यमगः । ३ । १ । १९ ॥ वनीपकः ६ भिक्षुकः ७ भिक्षा- करः ८ । इति शब्दरत्नावली ॥ तस्य लघुत्वं यथा, —
“तृणादपि लघुस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ किञ्चित्प्रार्थनशङ्कया ॥” इति प्राचीनाः ॥ अपि च । “कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च । शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ जगत्पतिर्हि याचित्वा विष्णुर्वामनतां गतः । कोऽन्योऽधिकतरस्तस्य योऽर्थी याति न लाघ- वम् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥



Correction: