शब्दकल्पद्रुमः
याचना || स्त्री (याच् + स्वार्थे णिच् + युच् । टाप् ।) याच्ञा । इत्यमरः । २ । ७ । ३२ ॥ (यथा, रामायणे । २ । २७ । २३ । “नयस्व मां साघु कुरुष्व याचनाम् ॥”)