संस्कृत-शब्दकोशः

याचना याचित

याचमान

शब्दकल्पद्रुमः

याचमानः || त्रि (याचते इति । याच् + शानच् ।)
याचकः । यथा, —
“नवीनदीनभावस्य याचमानस्य मानिनः । वचोजीवितयोरासीत् पुरोनिःसरणे रणः ॥” इति वररुचिः ॥ अपि च । “द्विजेभ्यो याचमानेभ्यो यजमानः प्रयच्छति । स याति चाक्षयान् लोकान् येभ्यो नावर्त्तते पुनः ॥ षष्टिवर्षसहस्राणां सहस्राणि वसेद्दिवि । योऽनुमन्तापि भवति निरये प्रतिषेधकः ॥” इति वह्निपुराणे वामनप्रादुर्भावो नामाध्यायः ॥



Correction: