संस्कृत-शब्दकोशः

याचित याच्ञा

याचितक

वाचस्पत्यम्

याचितक ||‍ न० याचितेनाधिगतम् कन् । याच्ञया धनस्वा- मिनो गृहीते (चाओया) द्रव्ये अमरः ।


शब्दकल्पद्रुमः

याचितकं || क्ली (याचितेन निर्वृत्तम् । याचित + “अपमित्ययाचिताभ्यां कक्कनौ ।” ४ । ४ । २१ । इति कन् ।)
याच्ञाप्राप्तम् । इत्यमरः । २ । ९ । ४ ॥ “याच्ञया । प्रत्यर्पणीयत्वेन याच्ञया यत् प्राप्तमलङ्कारादिवस्तु तत् याचितकम् । कार्य्या- नन्तरं वस्तुस्वामी यत् पुनर्गृह्णाति तदित्यर्थः । याचितेन प्राप्तमिति ढघे कादिति कः ।” इति भरतः ॥



Correction: