वाचस्पत्यम्
याज्ञसेनी || स्त्री यज्ञसेनस्य द्रुपदराजस्यापत्यं स्त्री अत इञ् ङीप् । द्रौपद्यां पाण्डवभार्य्यायाम् हेमच० ।
शब्दकल्पद्रुमः
याज्ञसेनी || स्त्री यज्ञसेनस्य स्त्र्यपत्यम् ॥ (यज्ञ- सेन् + अण् । ङीप् ।)
सा च द्रौपदी । इति हेम- चन्द्रः । ३ । ३७५ ॥ (यथा, महाभारते । ४ । ४ । ५६ । “याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥” अस्या विवरणं द्रौपदीशब्दे द्रष्टव्यम् ॥)