वाचस्पत्यम्
याज्य || न० इज्यतेऽत्र यज—बा ण्यत् । १ यागस्थाने २ देवप्रति- मायाञ्च “याज्यं क्षेत्रमलङ्कारम्” इति स्मृतिव्याख्यायां दायभागे “याज्यं यागस्थानं देवताप्रतिमा वेत्युक्तम् । ३ याजनीये त्रि० । करणे ण्यत् । ४ ऋग्विशेषे स्त्री । तदुच्चारणविशेषः आश्व० श्रौ० १ । ४५ सू० उक्तः ।
शब्दकल्पद्रुमः
याज्यं || क्ली (इज्यत इति । यज् + ण्यत् । “यज- याचरुचप्रवचर्चश्च ।” ७ । ३ । ६६ । इति कुत्व- निषेधः ।)
यागलब्धधनादि । इति सिद्धान्त- कौमुदी ॥ यजनीये, त्रि ॥ (यथा, मनौ । ८ । ३१७ । “अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्वि- षात् ॥” शिष्यः । शासनार्हः । यथा, देवीभागवते । १ । १८ । ९ । “याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥”)