वाचस्पत्यम्
यातना || स्त्री चु० यत—युच् । तीव्रवेदनायाम् अमरः ।
शब्दकल्पद्रुमः
यातना || स्त्री (यत् + णिच् + “न्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् । टाप् ।)
गाढवेदना । तत्पर्य्यायः । कारणा २ तीव्रवेदना ३ । इत्य- मरः । २ । ८ । ३ ॥ अतिव्यथा ४ । इति शब्द- रत्नावली ॥ (यथा, भागवते । ७ । १ । ४१ । “हिरण्यकशिपुः पुत्त्रं प्रह्रादं केशवप्रियम् । जिघांसुरकरोन्नानायातना मृत्युहेतवे ॥”)
नरकरुजा । इति केचिदिति भरतः ॥