वाचस्पत्यम्
यातयाम || त्रि० यातो गतो याम उचितसमयो यस्य । १ जीर्ण २ परिभुक्ते च अमरः । ३ पर्युषिते “यातयामं गतरसम्” इति गीता । ३ उच्छिष्टे मेदि० । ४ पुनःपुनःप्रयुज्यमाने च “संवत्सरसाध्ये गवामयने प्रत्यहं वृहद्रथन्तरसाम्नोः पुनः पुनः प्रयोगात् तस्य तथात्वम् ता० ब्रा० ४ । ३ । १३ भाष्ये दृश्यम् ।
शब्दकल्पद्रुमः
यातयामं || त्रि (यातो गतो याम उपभोगकालो वीर्य्यं वा यस्य ।)
जीर्णम् । (यथा, भट्टि- काव्ये । ५ । ३९ । “तं भीतङ्कारमाक्रुश्य रावणः प्रत्यभाषत । यातयामं विजितवान् स रामं यदि किन्ततः ॥”)
परिभुक्तम् । इत्यमरः । ३ । ३ । १४५ ॥ उज्झि- तम् । इति मेदिनी । मे, ६२ ॥ (प्राप्तशैत्या- वस्थम् । यथा, गीतायाम् । १७ । १० । “यातयामं गतरसं पूतिपर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥” गतरसः । यथा, ताण्ड्यमहाब्राह्मणे । ४ । ३ । १३ । “ब्रह्मवादिनो वदन्ति यातयामाः संवत्मरा अयातयामा इति ते नायातयामेति वक्तव्यम् ।” “यातयामः गतरसः ।” इति सायणः ॥)