वाचस्पत्यम्
यात्रा || स्त्री या ष्ट्रत् । १ जिगीषया राज्ञां गमने अमरः २ गमनमात्रे ३ देवोद्देशेनोत्सवभेदे रथयात्रादौ ४ या- पने च मेदि० । ५ उपाये विश्वः यात्रादिनादिकं मु० चि० यात्राप्रकरणे दृश्यम् ।
शब्दकल्पद्रुमः
यात्रा || स्त्री (या + “हुयामाश्रुभसिभ्यस्त्रन् ।” उणा० ४ । १६७ । इति त्रन् । टाप् ।)
विजिगीषोः प्रयाणम् । तत्पर्य्यायः । व्रज्या १ अभिनिर्याणम् ३ प्रस्थानम् ४ गमनम् ५ गमः ६ । इत्यमरः । २ । ८ । ९५ ॥ प्रस्थितिः ७ यानम् ८ प्राणनम् ९ । इति शब्दरत्नावली ॥ यापनम् ॥ (यथा, भागवते । १० । ८६ । १५ । “यात्रामात्रं त्वहरहर्दैवादुपनमत्युत ॥”)
उत्सवः । इति मेदिनी । रे, ७८ ॥ (यथा, कथा- सरित्सागरे । १० । ८७ । “यात्रामुपवने द्रष्टुं जगाम सखिभिः सह ॥” व्यवहारः । यथा, गीतायाम् । ३ । ८ । “शरीरयात्रापि च ते न प्रसिद्ध्येदकर्म्मणः ॥” “शरीरयात्रा देहव्यवहारः ।” इति तत्र नील- कण्ठः ॥)
उपायः । इति विश्वः ॥ * ॥
अथ यात्रा- दिनम् । भाद्रपौषचैत्रेतरमासेषु दूरयात्रा कर्त्तव्या । पूर्ब्बस्यां दिशि रविशुक्रवारस्य प्राश- स्त्यम् । दक्षिणस्यां मङ्गलवारस्य प्राशस्त्यम् । पश्चिमायां सोमशनिवारस्य प्राशस्त्यम् । उत्त- रस्यां बृहस्पतिवारस्य प्राशस्त्यम् । पूर्व्वस्यां दिशि सोमशनिवारे न गन्तव्यम् । दक्षिणस्यां बृहस्पतिवारे केषाञ्चिन्मते बुधवारे च न गन्त- व्यम् । पश्चिमायां रविशुक्रवारे । एवं उत्तरस्यां बुधमङ्गलवारे न गन्तव्यम् । द्वितीया तृतीया सप्तमी पञ्चमी दशमी एकादशी त्रयोदशी च एता यात्रायां प्रशस्ताः । अत्रोत्तमनक्षत्राणि । अश्विनी अनुराधा रेवती मृगशिरा मूला पुन- र्व्वसु पुष्या हस्ता ज्येष्ठा । मध्यमनक्षत्राणि । रोहिणी पूर्ब्बात्रयं चित्रा स्वाती शतभिषा श्रवणा धनिष्ठा । अधमनक्षत्राणि । उत्तरात्रयं विशाखा मघा आर्द्रा भरणी कृत्तिका अश्लेषा । तत्र नक्षत्रशूलकथनम् । स्वात्यां जेष्ठायाञ्च पूर्ब्बदिग्गमनं निषिद्धम् । एवं पूर्ब्बभाद्रपदे अश्विन्याञ्च दक्षिणदिग्गमनं पुष्ये रोहिण्याञ्च पश्चिमदिग्गमनं उत्तरफल्गुन्यां हस्तायाञ्च उत्तरदिग्गमनं निषिद्धम् । तत्रानुक्तकरणानि । गरं बणिजं विष्टिः । गरमपि कैश्चिच्छस्तं मन्यते । अत्र उत्तमलग्नानि । सिंहवृषकुम्भ- कन्यामिथुनानि । तत्र योगिनीनिर्णयः । प्रति- पदि नवम्याञ्च प्राच्यां योगिनी । तृतीयायां एकादश्याञ्चाग्निकोणे । पञ्चम्यां त्रयोदश्याञ्च दक्षिणे । द्वादश्यां चतुर्थ्याञ्च नैरृतकोणे । षष्ठ्यां चतुर्द्दश्याञ्च पश्चिमे । सप्तम्यां पूर्णिमा- याञ्च वायुकोणे । द्वितीयायां दशम्याञ्च उत्तर- दिशि । अष्टम्याममावास्यायाञ्च ईशानकोणे । तां दक्षिणे सम्मुखे च कृत्वा न गन्तव्यम् । पापयोगत्र्यहस्पर्शमासदग्धादिषु यात्रा न कर्त्तव्या । वारवेलाकालवेलाकुलिकवेलावृष्टि- भद्रादिषु च यात्रा न कर्त्तव्या । द्विरागमनदिनं नववधूशब्दे द्रष्टव्यम् ॥ * ॥
अथ गोयात्राप्रवेश- विक्रयाः । तत्र तिथयः । अमावस्याष्टमी- चतुर्द्दशीविष्टिभिन्नाः । तत्र नक्षत्राणि । रोहिणी पूर्ब्बफल्गुनी पूर्व्वाषाढा पूर्व्वभाद्रपत् उत्तरफल्गुनी उत्तराषाढा उत्ररभाद्रपत् श्रवणा भरणी चित्रा एतद्व्यतिरिक्तानि । योगाः । व्यतीपातभिन्नाः । वाराः । क्रूर- भिन्नाः ॥ * ॥
अथ नौकायात्रा । तत्र विहित- नक्षत्राणि । अश्विनीहस्तापुष्यमृगशिरःपूर्ब्ब- फल्गुनी-पूर्ब्बाषाढा-पूर्ब्बभाद्रपदनुराधाधनिष्ठा- श्रवणाः । वाराः शुभग्रहाणाम् । तत्र लग्नं शोभनम् । तत्र शोभनश्चन्द्रः । तारा च शोभना विहिता । इति ज्योतिस्तत्त्वम् ॥ * ॥
अथ यात्रायां शुभजनकद्रव्यदर्शनादि यथा, —
“धेनुर्व्वत्सप्रयुक्ता वृषगजतुरगा दक्षिणावर्त्तवह्नि- र्दिव्यस्त्रीपूर्णकुम्भा द्बिजनृपगणिकाः पुष्पमाला पताका । सद्योमांसं घृतं वा दधि मधु रजतं काञ्चनं शुक्लधान्यं दृष्ट्वा श्रुत्वा पठित्वा फलमिह लभते मानवो गन्तुकामः ॥” इति समयप्रदीपः ॥ तत्राशुभजनकदर्शनं यथा, —
“सम्मुखे रजकं पश्चात् क्षुरिणं यदि पश्यति । न गन्तव्यं तदा तस्मात् तैलवाप्यग्रगोऽशुभः ॥ अजो लुण्ठति गौः कासी क्षुतं वा कुरुते नरः । पश्यन् यात्रा न कर्त्तव्या क्लीवं पश्यति वाग्रतः ॥” इति ज्योतिराकरः ॥ यात्राकाले विशेषदर्शनफलं यथा, —
“मृगाहिकपिमार्ज्जारश्वानः शूकरपक्षिणः । नकुलो मूषिकश्चैव यात्रायां दक्षिणे शुभाः ॥ विप्रकन्या शवो रुद्रशङ्खभेरीवसुन्धराः । जम्बुकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ॥ वेणुस्त्रीपूर्णकुम्भानां यात्रायां दर्शनं शुभम् ॥” यात्राकाले अशुभलक्षणं यथा, —
“कार्पासौषधतैलञ्च पङ्काङ्गारभुजङ्गमाः । मुक्तकेशो रक्तमाल्यं नग्नाद्यशुभलक्षणम् ॥” * ॥
यात्राकाले छिक्कायाः फलं यथा, —
“छिक्काया लक्षणं वक्ष्ये लभेत् पूर्ब्बे महाफलम् । आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥ नैरृत्ये शोकसन्तापौ मिष्टान्नञ्चैव पश्चिमे । अन्नं प्राप्नोति वायव्ये उत्तरे कलहो भवेत् । ईशाने मरणं प्रोक्तं प्रोक्तं छिक्काफलाफलम् ॥” अथ यात्रायां दिग्विशेषे विशेषनक्षत्राणि । “कृत्तिकादौ तु पूर्ब्बेण सप्त ऋक्षाणि वै व्रजेत् । मघादौ दक्षिणे गच्छेदनुराधादि पश्चिमे ॥ प्रशस्ता चोत्तरे यात्रा धनिष्ठादिषु सप्तसु । अश्विनीरेवतीचित्राधनिष्ठाः सदलङ्कृताः । मृगाश्विचित्रापुष्याश्च मूलहस्तौ शुभौ सदा ॥” यात्रादौ लग्नादिषु ग्रहस्थितिफलं यथा, —
“कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्म्मसु । शुक्रचन्द्रौ च जन्मस्थौ शुभदौ च द्बितीयगौ ॥ शशिज्ञशुक्रजीवाश्च राशौ चाथ तृतीयके । भौममन्दशशाङ्कार्का बुधः श्रेष्ठश्चतुर्थके ॥ शुक्रजीवौ पञ्चमौ च श्रेष्ठौ सद्भिरुदाहृतौ । मन्दार्केन्दुकुजाः षष्ठे गुरुचन्द्रौ च सप्तमे ॥ शुक्रज्ञावष्टमे श्रेष्ठौ नवमस्थौ गुरुः शुभः । अर्कार्किचन्द्रा दशमे एकादशेऽखिला ग्रहाः ॥ बुधोऽथ द्बादशे चैव भार्गवः सुखदो भवेत् ॥” इति गारुडे ६० । ६१ अध्यायौ ॥ * ॥
अथ राजयात्रा । “इदानीं सर्व्वधर्म्मज्ञ धर्म्मशास्त्रविशारद ! । यात्राकालविधानं मे कथयस्व महीक्षिताम् ॥ यदा मन्येत नृपतिराक्रन्देन बलीयसा । पार्ष्णिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत् ॥ योधान्मत्वा प्रभूतांश्च प्रभूतञ्च बलं मम । मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥ अशुद्धपार्ष्णिर्नृपतिर्न तु यात्रां प्रयोजयेत् । पार्ष्णिग्राहाधिकं सैन्यं मूले निःक्षिप्य वा व्रजेत् ॥ चैत्रं वा मार्गशीर्षं वा यात्रां यायान्नराधिपः । चैत्री नश्यति नैदाघं हन्ति पुष्टिञ्च शारदी ॥ एतदेव विपर्य्यस्तं मार्गशीर्षं नराधिपः । शत्रोर्व्वा व्यसने यायात् कालः स तु सुदुर्लभः ॥ दिव्यान्तरीक्षक्षितिजैरुत्पातैः पीड्२इतं परम् । सदृक्षपीडासंतप्तं पीडितञ्च तथा ग्रहैः ॥ ज्वलन्तीव तथैवोल्का दिशं यस्य प्रपद्यते । भूकम्पोल्का दिशं यान्ति याञ्च केतुः प्रसूयते ॥ निर्घातश्च पतेद्यत्र तं यायाद्वसुधाधिपः । सबलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ॥ सम्भूतान्तरकोपञ्च क्षिप्रं यायादरिं नृपः । यूकमाक्षीकबहुलं बहुपङ्कं तथाविलम् ॥ नास्तिकं भिन्नमर्य्यादं तथामङ्गलवादिनम् । अपेतप्रकृतिञ्चैव निरापञ्च तथा जयेत् ॥ विद्विष्टनायकां सेनां तथा भिन्नां परस्परम् । व्यसनासक्तनृपतिं बलं राजाभियोजयेत् ॥ सैनिकानामशस्त्राणि स्फूरन्त्यङ्गानि यत्र च । दुःस्वप्नान्यपि पश्यन्ति बलन्तदभियोजयेत् ॥ उत्साहबलसम्पन्नश्चानुरक्तबलस्तथा । तुष्टपुष्टबलो राजा परानभिमुखो व्रजेत् ॥ शरीरस्फुरणे धन्ये तथा दुःस्वप्ननाशने । निमित्ते सङ्कुले धन्ये जाते शत्रुपुरं व्रजेत् ॥ ऋक्षेषु षट्सु शुद्धेषु ग्रहेष्वनुगुणेषु च । प्रश्नकाले शुभे जाते परान् यायान्नराधिपः ॥ एवन्तु दैवसम्पन्नस्तथा पौरुषसंयुतः । देशकालोपपन्नान्तु यात्रां यायान्नराधिपः ॥ उलूकस्य निशि ध्वाङ्क्षः स च तस्य दिवा वशे । एवं देशञ्च कालञ्च ज्ञात्वा यात्रां प्रयोजयेत् ॥ पदातिनागबहुलां सेनां प्रावृषि योजयेत् । हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥ खरोष्ट्रबहुलां सेनां तथा ग्रीपे नराधिपः । चतुरङ्गबलोपेतां वसन्ते वा शरद्यथ ॥ सेना पदातिबहुला यस्य स्यात् पृथिवीपतेः । अभियोज्यो भवेत्तेन शत्रुर्विषयमाश्रितः ॥ गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च । किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥ रथाश्वबहुलो यायात् शत्रुं समपथाश्रितम् । तदाश्रयन्तो बहुलास्तथा राजाभिपूजयेत् ॥ खरोष्ट्रबहुलो राजा शत्रुं बन्धनसंस्थितम् । बन्धनस्थोऽपि योज्योऽरिस्तदा प्रावृषि भूभुजा ॥ हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् । शरद्वसन्तौ धर्म्मज्ञ कालौ साधारणौ स्मृतौ ॥ विज्ञाय राजा द्विजदेशकालौ दैवं त्रिकालञ्च तथैव बुद्ध्वा । प्रायात् परं कालविदां मतेन सञ्चिन्त्य सार्द्धं द्विजमन्त्रविद्भिः ॥” इति मात्स्ये २१४ अध्यायः ॥ * ॥
यात्राकाले माङ्गल्यद्रव्याणि यथा, —
“पौर्व्वापर्य्यं स्ववृत्तान्तं तानुक्त्वा च शुभक्षणे । तैरेव सार्द्धं बलवान् बभूव गमनोन्मुखः ॥ ददर्श मङ्गलं रामः शुश्राव जयसूचकम् । बुबुधे मनसा सर्व्वं विजयं वैरिसंक्षयम् ॥ यात्राकाले च पुरतः शुश्राव सहसा मुनिः । हरिशब्दं शङ्खरवं घण्टादुन्दुभिवादनम् ॥ आकाशवाणीं सङ्गीतां जयस्ते भवितेति च । नरोक्तं तञ्च कल्याणं मेघशब्दं जयावहम् ॥ चकार यात्रां भगवान् श्रुत्वेत्येवंविधं शुभम् । ददर्श पुरतो विप्रवन्दिदैवज्ञभिक्षुकान् ॥ जलत्प्रदीपं विभ्रन्तीं पतिपुत्त्रवतीं सतीम् । पुरो ददर्श स्मेरास्यां नानाभूषणभूषिताम् ॥ शिवं शिवां पूर्णकुम्भं चासञ्च नकुलन्तथा । गच्छन् ददर्श रामेशो यात्रामङ्गलसूचकम् ॥ कृष्णसारं गजं सिंहं तुरगं गण्डकं द्विपम् । चमरीं राजहंसञ्च चक्रवाकं शुकं पिकम् ॥ मयूरं खञ्जनञ्चैव शङ्खचिल्लञ्चकोरकम् । पारावतं वलाकाञ्च कारण्डं चातकं चटम् ॥ सौदामिनीं शक्रचापं सूर्य्यं सूर्य्यसभां शुभाम् । सद्योमांसं सजीवञ्च मत्स्यं शङ्खं सुवर्णकम् ॥ माणिक्यं रजतं मुक्तां मणीन्द्रञ्च प्रबालकम् । दधि लाजं शुक्लधान्यं शुक्लपुष्पञ्च कुङ्कुमम् ॥ शुक्लच्छत्रं पताकाञ्च दर्पणं श्वेतचामरम् । धेनुं वत्सप्रयुक्ताञ्च रथस्थं भूमिपं तथा ॥ दुग्धञ्च रोचनामाज्यममृतं पायसं तथा । शालग्रामं पक्वफलं स्वस्तिकं शर्करां मधु ॥ मार्ज्जारञ्च वृषेन्द्रञ्च मेघपर्व्वतमूषिकम् । मेघाच्छन्नस्य च रवेरुदयं चन्द्रमण्डलम् ॥ कस्तूरीं कज्जलं तोयं हरिद्रां तीर्थमृत्तिकाम् । सिद्धार्थं सर्षपं दूर्व्वां विप्रबालञ्च बालिकाम् ॥ मृगं वेश्याञ्च भ्रमरं कर्पूरं पीतवाससम् । गोमूत्रं गोपुरीषञ्च गोधूलिं गोपदाङ्कितम् ॥ गोष्ठं गवां वर्त्म रम्यं गोशालं गोरतिं शुभाम् । भूषणं देवप्रतिमां ज्वलदग्निं महोत्सवम् ॥ ताम्रं स्फटिकं रैत्यञ्च सिन्दूरं माल्यचन्दनम् । गन्धञ्च हीरकं रत्नं ददर्श दक्षिणे शुभम् ॥ सुगन्धि वायोराघ्राणं प्राप विप्राशिषं शुभम् । इत्येवं मङ्गलं ज्ञात्वा प्रययौ स मुदान्वितः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३३ अध्यायः ॥ * ॥
यात्राकाले अमङ्गलसूचकानि यथा, —
“राजा जगाम समरं हृदयेन विदूयता । सार्द्धं सैन्यसमूहैश्च वाद्यभाण्डैरसंख्यकैः ॥ ददर्शामङ्गलं राजा पुरो वर्त्मनि वर्त्मनि । ययौ तथापि समरं न जगाम गृहं पुनः ॥ मुक्तकेशीं छिन्ननासां रुदन्तीञ्च दिगम्बरीम् । कृष्णवस्त्रपरीधानामपरां विधवामपि ॥ मुखदुष्टां योनिदुष्टां व्याधियुक्ताञ्च कुट्टनीम् । पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो ॥ कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् । कुचेलमपि रूक्षाङ्गं नग्नं काषायवासिनम् ॥ वत्सविक्रयिणञ्चैव कन्याविक्रयिणं तथा । चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च ॥ सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषम् । श्राद्धपाकञ्च पिण्डञ्च मोदकञ्च तिलांस्तथा ॥ देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनम् । शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम् ॥ कुशपुत्तलिकाञ्चैव शवदाहनकारिणम् । शून्यकुम्भं चूर्णकुम्भं तैलं लवणमस्थि च ॥ कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् । दक्षिणे च शृगालाञ्च कुर्व्वन्तं भरवं रवम् ॥ कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलम् । कलहञ्च विलापञ्च विलापकारिणं जनम् ॥ अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणम् । मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनम् ॥ पुंश्चलीपतिपुत्त्रौ च पुंश्चल्योदनभोजिनम् । देवतागुरुविप्राणां वस्तुवित्तापहारिणम् ॥ दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् । पितृमातृविरक्तञ्च द्विजाश्वत्थविघातिनम् ॥ सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनम् । मित्रद्रुहं मित्रघ्नञ्च क्षतं विश्वासघातिनम् ॥ गुरुदेवद्बिजानाञ्च निन्दकं स्वाङ्गघातकम् । जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्दयम् ॥ व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकम् । गलितव्याधिगात्रञ्च गुरुलङ्घनमेव च ॥ पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा । क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा ॥ मूत्रं पुरीषं श्लष्माणं कन्थिनं नृकपालिनम् । झञ्झावातं रक्तवृष्टिं वाद्यञ्च नृपघातकम् ॥ वृद्धञ्च शूकरं गृध्रं श्येनं कङ्कञ्च भल्लुकम् । पाशञ्च शुष्ककाष्ठञ्च वायसं गन्धकं तथा ॥ अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रीपजीविनम् । वैद्यञ्च रक्तपुष्पञ्चैवौषधन्तुषमेव च ॥ कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणम् । दुर्गन्धवातं दुःशब्दं राजा संप्राप वर्त्मनि ॥ मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम् । वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव ह ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥ श्रीकृष्णस्य मथुरायात्रा यथा, —
“राधिकायाञ्च सुप्तायां सुप्तासु गोपिकासु च । पुष्पचन्दनतल्पे च वायुना सुरभीकृते ॥ तृतीयप्रहरेऽतीते निशायाश्च शुभक्षणे । शुभचन्द्रक्षयोगे चामृतयोगसमन्विते ॥ सौम्यस्वामियुते लग्ने सौम्यग्रहविलोकने । पापग्रहसमासक्तदृष्टिदोषादिवर्ज्जिते ॥ यशोदां बोधयामास कारयामास मङ्गलम् । बन्धूनाश्वासयामास समुत्थाय हरिः स्वयम् ॥ वाद्यं निषेधयामास राधिकाभयभीतवत् । स्वतन्त्रो विश्वकर्त्ता च पाता भर्त्ता स्वतन्त्रवत् ॥ प्रक्षाल्य पादयुगलं धृत्वा धौते च वाससी । उवास संस्कृते स्थाने विलिप्ते चन्दनादिना ॥ फलपल्लवसंयुक्तं संस्कृतं चन्दनादिभिः । वामे कृत्वा पूर्णकुम्भं वह्निं विप्रं स्वदक्षिणे । पतिपुत्त्रवतीं दीपं दर्पणं पुरतस्तथा ॥ दूर्व्वाकाण्डञ्च सुस्निग्धं पुष्पं धान्यं सितं शुभम् । गुरुदत्तं गृहीत्वा च प्रददौ मस्तकोपरि ॥ घृतं ददर्श माध्वीकं रजतं काञ्चनं दधि । चन्दनं लेपनं कृत्वा पुष्पमालां गले ददौ ॥ गुरुवर्गं ब्राह्मणश्च वन्दयामास भक्तितः । शङ्खध्वनिं वेदपाठं सङ्गीतं मङ्गलाष्टकम् ॥ विप्राशीर्व्वचनं रम्यं शुश्राव परमादरम् । ध्यात्वा मङ्गलरूपञ्च सर्व्वत्रं मङ्गलप्रदम् ॥ चिक्षेप दक्षिणं पादं सुन्दरं स्वात्मविग्रहम् । विधृत्यं नासिकावामभागं मध्यमया विभुः ॥ विसृज्य वायुमिष्टञ्च नासादक्षिणरन्ध्रतः । ततो ययौ नन्दनन्दो नन्दस्य प्राङ्गणं वरम् ॥” इति ब्रह्मवैवत्तै श्रीकृष्णजन्मखण्डे ७१ अध्यायः ॥ अथ यात्रायुक्तिः । तत्र समयः । “यात्रायां द्विविधः कालो वैकारः सहजस्तथा । प्रोक्त आत्ययिके कार्य्ये विकारो नात्र निर्णयः । सहजः स्वेच्छया राज्ञां तस्य निर्णय उच्यते ॥ यात्राजसिंहमध्या शनैश्चरबुधोशनसां गृहेषु । भानौ कुलीरवृषवृश्चिकगोभिर्दीर्घा शस्तस्तु देवलमतेऽध्वनि पृष्ठतोऽर्कः ॥ अश्विनी रेवती ज्येष्ठा तथा पुष्यपुनर्वसू । मैत्रं मृगशिरो मुला यात्रायामुत्तमाः स्मृताः ॥ भरणी कृत्तिकाश्लेषा विशाखा चोत्तरात्रयम् । मघा पशुपतिश्चैव यात्रायां मरणप्रदाः ॥ पूर्ब्बे कुवेरे दहने निशाटे यमे जलेशे पवने महेशे । त्याज्यं नरस्य प्रतिपत्क्रमेण युग्मं तिथीनां प्रवदन्ति तज्ज्ञाः । स्यात् संमुखे यानमसुक्षयाय पश्चाद्भवेत् सर्व्वशुभाय पुंसाम् ॥ सूर्य्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्ब्बुधः । अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ पूर्ब्बेणेन्द्रं दक्षिणे यानपादं रोहिण्ये तच्चार्य्यमाख्याञ्च शूलम् । कामं यायात् साम्परायेषु कार्य्ये- ष्वन्यद्वापि प्रेक्ष्य शूलानि भानि ॥” तत्र दिक्शूलम् । “षष्ठ्यष्टमी चतुर्थी च नवमी द्वादशी तथा । चतुर्द्दशी कुहूस्त्याज्या यात्रायामशुभप्रदाः ॥ प्रायो जगुः सहजशत्रुदशाय संस्थाः पापाः शुभाः सवितृजं परिमुच्य खस्थम् । सर्व्वत्रगाः शुभफलं जनयन्ति सौम्या- स्त्यक्त्वारिसंस्थममरारिगुरुं जिगीषोः ॥ नाकालवर्षविद्युत्स्तनितेष्विष्टं कथञ्चिदपि यानम् । आसप्ताहात् दिव्यान्तरीक्षभौमैस्तथोत्पातैः ॥” तत्र क्रमः । “राज्ञां यात्राविधिं वक्ष्ये जिगीषूणां परावनीम् । नीराजनाविधिं कृत्वा सैनिकाश्चानयेत्ततः । गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः ॥” तत्र नीराजनाविधिः । “वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे । अश्वनीराजनं कुर्य्यात् यथोक्तमृषिसत्तमैः ॥ उदीचीं प्रस्थिते भानौ संक्रान्त्यां वा शुभे दिने । गजनीराजनं कुर्य्यात् महीपालो जिगीर्षिवान् ॥ वृश्चिकस्थे रवौ कुर्य्यात् पत्तिनीराजनाविधिम् । नौकानीराजनं कुर्य्यात् दक्षिणाशां प्रतिष्ठति ॥ अन्येषाञ्चैव यानानां विजयादशमीतिथिम् । ध्वजादीनाञ्च सर्व्वेषां शक्रोत्थाने नीराजनम् ॥ छत्रस्य नवदण्डस्य तथा सिंहासनस्य च । गृहस्य नगरस्यापि महाविषुवसंक्रमे ॥ आत्मनो युवराजस्य महिष्या मन्त्रिणान्तथा । स्वजन्मदिवसे राजा कुर्य्यान्नीराजनाविधिम् ॥ अभिषेकदिनं प्रोक्तमेषां जन्मदिनं मया ॥” तद्यथा, —
“अश्वानां भास्करो देवो रेवन्तमिति संज्ञया । गजानां देवता शक्रः पत्तीनां कालिका मता ॥ नौकानां वरुणो देवो यानानान्तु जयन्तकः । अस्त्राणां देवता रामो यमः खड्गस्य पूज्यते ॥ ध्वजानां हनुमान् पूज्यो बृहस्पतिरिति क्रमात् । तान् पूजयित्वा विधिवदेतान्नीराजयेन्नृपः ॥ द्बादशमहिषैःपुष्टैश्चामरघण्टास्वनादिभूषाढ्यैः । छागलैर्महिषद्विगुणैः पुरुषैस्तद्द्विगुणैश्चारुदीपि- काभिः ॥ भव्यं वा सहस्रांशुदिने नीराजयेद्राजा । द्वादशवाहै रुचिरैः साङ्गोपाङ्गैरतोर्द्धतश्चोष्ट्रैः ॥ तस्यार्द्धतो व्याघ्रैर्गजशतनीराजनं सम्भवति । छागलशतं वृषभशतं शतञ्च मेषाणाम् ॥ तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च द्बिपश्चैकः । भल्लुका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य ॥ नौकाशतकं साङ्गं नवदशकं काञ्चनादिभि- र्घटितम् । बहुशतमपि जन्तूनां नौकानीराजने राज्ञाम् ॥ यद्वा द्विपदं यानं सर्व्वेषामिष्यते तुरगैः । सुदशावत्सरवसितैर्योग्याङ्गैर्योग्यवर्णैश्च ॥ अष्टाभिर्धातुभिः कुर्य्यादस्त्रनीराजनाविधिम् । गजाश्वनरनौकाभिर्द्विगुणाभिर्यथोत्तरम् । रत्नैर्नानाविधैरस्त्रैर्धातुभिर्वसनैस्तथा ॥ सिंहासनैश्च योग्यैश्व कुर्य्यान्नीराजनाविधिम् गृहनीराजनाप्येवं नरस्याथ निगद्यते ॥ श्वभिः खरैः शृगालैश्च व्याघ्रैरुष्ट्रैस्तथोद्धतैः । पुरं नीराजयेद्राजा चिरसम्पत्तिहेतवे ॥ श्वा दशाश्वस्तदर्द्धेन नरश्चैव तदर्द्धतः । व्याघ्रादीनां तथैवैकं रत्नं नानाविधन्तथा ॥ अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च । वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥ नवग्रहाश्च सूर्य्याद्याः शैलाः सप्त घटास्तथा । योग्यधातुसमुद्भूता नौकाखण्डत्रयन्तथा ॥ निजदेहमितं स्वर्णं रजतं ताम्रमेव वा । आत्मनीराजने दद्याद्यदिच्छेच्चिरसंस्थितिम् ॥ अस्त्रैर्नानाविधैः कुर्य्याद्युवराजनीराजनम् । अलङ्कारैश्च विविधैर्द्देवीनीराजनं मतम् ॥ मन्त्रिनीराजनं राजा हयेनैव समाचरेत् ॥ अमात्यानां सैनिकानां विप्राणां धनिनान्तथा । वस्त्रैर्नीराजनं कुर्य्यादिति भोजस्य सम्मतम् ॥ नीराजनाया वस्तूनि न पश्येन्न पुनः स्पृशेत् । सप्तकृत्वः परिभ्राम्य कुर्य्यान्नीराजनाविधिम् ॥ न्यसेद्वा परराष्ट्रेषु गहने वा जलेऽपि वा । दैवज्ञवैद्यदीनेभ्यः प्रयच्छेद्वा यथायथम् ॥ इति संक्षेपतः प्रोक्तो मया नीराजनाविधिः । अनेन विधिना राजा सुचिरं सुखमश्नुते ॥” तथा हि गर्गः । “नीराजना महीन्द्राणां निहन्ति विपदोऽखिलाः । सैव सन्नहनं राज्ञां कञ्चुकेनेव संयतः ॥ नीराजनावन्दितानां न भयं विद्यते क्वचित् । नीराजनाविहीनानां नश्येयुः सर्व्वसम्पदः ॥” तथा च वात्स्यः । “ये भूमिपालाः प्रतिवत्सरान्त कुर्व्वन्ति नीराजनकर्म्म सम्यक् । तेषां न लक्ष्मीः क्षयतामुपैति साम्राज्यलक्ष्मीः करगैव तेषाम् ॥ एवं नीराजनं कृत्वा राजा प्रस्थानमाचरेत् ॥” इति नीराजनाविधिः ॥ * ॥
अथ यात्रा । “गुणातिशयसम्पन्नः शत्रुं यायाज्जिगीषया । यदि पश्चात् प्रकोपो न यदि राष्ट्रे न कण्टकाः ॥ संज्ञायान्यत्र यायाद्वा पार्ष्णिग्राहेण शत्रुणा ॥ रात्रावुलुको विनिहन्ति काकान् काकोऽप्युलूकान् रजनीव्यपाये । इति स्वकालं समुदीक्ष्य यायात् काले फलन्तीह समीहितानि ॥ प्रबलव्यसनोपेतं दुर्भिक्षादिप्रपीडितम् । सम्भूतान्तरकोपेतं न यायात् पृथिवीपतिः ॥ निजदैवानुकूल्ये हि प्रातिकूल्ये परस्य च । यायाद्भूपो यतो दैवं बलमेतत् परं मतम् ॥” अन्यत्र तु । “निरातङ्के निरुत्पाते निरुद्विग्ने निरामये । विपक्षे जयमिच्छन्ति राजानो विजिगीषवः ॥” इति युक्तिकल्पतरुः ॥ युद्धयात्रायाममङ्गलदर्शनं यथा, —
“तस्य निर्गच्छतो गेहात् श्वानोऽस्थि मुखतो- ऽभवत् । ध्वजे रुरोह कापोतः शिवा श्यामा च दक्षिणा ॥ पिङ्गला चञ्चुगोधा च शूकरी केवली तथा । गजवानरसेनाजशिखिच्छिक्काश्च वामतः ॥ पथं विभिन्दते सर्पः कुम्भोदकं व्यशीर्य्यत । रुराव वानरो ऋक्षो मार्जारो ह्यतिभैरवम् ॥ तैलतक्रतृणकेशयुक्ताभ्यक्तादिदर्शनम् । वान्तोन्मत्तजडमूकक्षुत्क्षामनक्रजं रवम् ॥ तुषकार्पासलवणानां निन्दितानाञ्च दर्शनम् । रक्ताम्बरधरो मुण्डः पङ्कामिषं तथा वसा ॥ ललाटं शक्रजश्चाप उल्कापातध्वजारुणाः । दिशां दाहमहीकम्पाः सरजः कलुषं नभः ॥ निस्तेजस्तेपते भानुर्नद्यः प्रतिमुखावहाः । उष्णोदकं महाकूपं दरणं दीर्घिकासु च ॥ अकालविकृतिः पुष्पफलानामन्वभूत्तदा । शीत उष्णविपर्य्यासा मेघनादाश्च दारुणाः ॥ आरण्यसत्त्वा ग्रामेषु ग्रामजारण्यवासिनः । क्रोष्टृसर्पसमूहाश्च शशश्वानः पिपीलिकाः ॥ ऋक्षाणां महती सेना मृगाणाञ्च तथैव च । एते च पुरप्राकारे निपतन्त्युत्पतन्ति च ॥ दुर्गन्धः शार्करो वायुर्दीनां योधा हतप्रभाः । शकृन्मूत्राश्रुपातानि गजा अश्वाः प्रचक्रिरे । ध्वजच्छत्रपताकानां स्फुटनं दण्डभिन्दनम् । कलङ्कमसि चक्रे च हता दुन्दुभिरेव च ॥ ज्यातलाकूटनश्चापि नाराचानाञ्च कुञ्चता । गदानां मुद्गराणाञ्च शीर्णता ह्यनुभिन्दता ॥ शुष्कप्ररोहणञ्चार्कसार्द्रपातस्तथैव च । प्रतिमारुदितं स्वेदो मृतकानाञ्च जल्पनम् ॥ गवां रासभमारोहः स्त्रीणाञ्च बह्वपत्यता । स्त्रीसूते अविच्छागादि ह्यजावि शिशुशोभनम् । बालानां घातनं युद्धे निस्त्रिंशाः सकलाः प्रजाः । मक्षिकादंशमण्डूकबहुगोनासदर्शनम् ॥ निस्तेजा न वहेद्बह्निः सधूमः स्फुटते मुहुः ॥ एवंविधान् तथोत्पातान् दृष्टान् घोरेण वासव । पप्रच्छ नारदं सोऽथ किमेतद्विकृतं द्विज ! ॥” इत्याद्ये देव्यवतारे घोरवधाध्यायः ॥ अथ द्बादश यात्रा । “प्रणम्य जगतां नाथं कलिकल्मषनाशनम् । द्बादशयात्रातत्त्वानि वक्ति श्रीरघुनन्दनः ॥” तत्रादौ द्बादशयात्राकालस्य मुख्योपादेयत्वात् आदौ स एव निरूप्यते । तद्यथा स्कन्दपुराणे । इन्द्रद्युम्न उवाच । “वैशाखादिषु मासेषु यात्रापूजाविधिं मुने ! । श्रोतुमिच्छामि देवेशे यथावद्वक्तुमर्हसि ॥ जैमिनिरुवाच । वैशाखादिषु मासेषु देवदेवस्य शार्ङ्गिणः । या या द्वादश यात्राः स्युस्ता हि वक्ष्यामि ते शृणु ॥ वैशाखे चान्दनी यात्रा ज्यैष्ठे स्नापन्युदीरिता । आषाढे रथयात्रा स्यात् श्रावणे शयनी तथा ॥ भाद्रे दक्षिणपार्श्वीया आश्विने वामपार्श्विका । उत्थानी कार्त्तिके मासि छादनी मार्गशीर्षके ॥ पौषे पुष्याभिषेकः स्यान्माघे शाल्योदनी तथा । फाल्गुने दोलयात्रा स्याच्चैत्रे मदनभञ्जिका ॥ एकैका मुक्तिदा सर्व्वा धर्म्मकामार्थसाधनाः ॥” अथ यात्राविधिः । स्कान्दे । “वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः ॥ वैशाखस्यामले पक्षे तृतीया पापनाशिनी । स्वयमाविष्कृता चैषा प्राजापत्यर्क्षसंयुता ॥ यः पश्यति तृतीयायां कृष्णं चन्दनभूषितम् वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम् ॥ वैष्णवा जयशब्दैश्च पूजयित्वा तदा हरिम् । नानासूक्तोपनिषदैर्व्विश्वेशं संस्तुवन्ति च ॥ वेणुवीणादिवाद्यैश्च तथा नानोपहारकैः । सन्तोषयन् जगन्नाथं तृतीयादौ विलेपयेत् ॥ वैशाखस्य तृतीयायां जलमध्ये विशेषतः । लेपनं मण्डपे कुर्य्यान्मण्डले वा बृहद्वने ॥ चन्दनागुरुह्रीवेरं कुष्ठकुङ्कुमरोचनाः । जटामांसी मुरा चैव विष्णोर्गन्धाष्टकं विदुः ॥ एतैर्गन्धैस्तथान्यैश्च विष्णोर्गात्राणि लेपयेत् । घृतञ्च तुलसीकाष्ठं कुर्य्याल्लेपनकर्म्मणि ॥” १ ॥ अथ स्नानयात्रा । स्कन्दपुराणे । “ज्यैष्ठ्यामहञ्चावतीर्णस्तत् पूण्यं जन्मवासरम् । तस्याञ्च स्नापणं कार्य्यं महास्नानविधानतः । तस्यां प्रातःस्नानकाले ब्रह्मणा सहितञ्च माम् । रामं मुभद्रां सुस्नाप्य मम लोकमवाप्नयात् ॥” तथा । “मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदेवते । पौर्णमास्यां हरेः स्नानं सर्व्वकामफलप्रदम् ॥ सर्व्वतीर्थसमः कूपस्तदास्ते निर्म्मलः शुचिः । तदा भोगवती तत्र प्रत्यक्षं भवति द्विजाः ॥ तस्मात् ज्यैष्ठ्यां समुद्धृत्य होमाज्यैः कलसैर्ज्जलैः । स्नापयन्ति तदा कृष्णं सततं तं हलायुधम् ॥ जन्माहनि हरेः स्नानमुत्सवं परमाद्भुतम् । उत्सवो वै न हीयेत तस्मात्तद्यत्नतश्चरेत् ॥ जन्मनां क्षयकारित्वाज्जन्मयात्रा प्रतिष्ठिता । ज्यैष्ठस्नानं भगवतो ये पश्यन्ति मुदान्विताः ॥ न ते भवाब्धौ मज्जन्ति यात्रायां यतमानसाः । ज्यैष्ठे च स्नपनं कुर्य्यात् श्रीविष्णोर्जन्मवासरे ॥ दैनन्दिनन्तु दुरितं पक्षमासर्त्तुवर्षजम् । ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ॥ स्वर्णस्तेयसुरापानगुरुतल्पयुतानि च । कोटिकोटिसहस्राणि क्षुद्रपापानि यानि च ॥ सर्व्वाण्येव प्रणश्यति पौर्णमास्यान्तु वासरे । पुरुषसूक्तमन्त्रेण पावमान्या तथैव च ॥ नारिकेलोदकेनाथ तथा तालफलाम्बुना । पञ्चामृतैः शीततोयैर्द्दूर्व्वाकर्पूरवासितैः ॥ यवोदकेन शुद्धेन तथा पुष्पोदकेन च । स्नापयित्वा जगन्नाथं पूजयेत् परमेश्वरम् ॥ ॐ घं घण्टायै नमः इति घण्टावाद्यं निवेदयेत् । य एवं कुरुते विद्बान् ब्राह्मणः क्षत्त्रियः शुचिः । सर्व्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति । चतुर्द्दश्यां दृढं मञ्चं कारयित्वा सुशोभनम् ॥ सुगन्धिधूपसुरभिं चन्दनाम्भःसमुक्षितम् । एवं मञ्चं प्रतिष्ठाप्य कलसानधिवासयेत् ॥ सुवासितं जलपूर्णं पावकं कलसं न्यसेत् । जयशब्दैश्च स्तुतिभिर्नीयते जगदीश्वरः ॥ जयस्व राम कृष्णेति जयभद्रेति चोदिते । नीयते मञ्चदेशन्तु निशीथे ब्राह्मणादिभिः ॥” अथ रथयात्रा । स्कन्दपुराणे । “गुण्डिकाख्यां महायात्रां प्रकुर्व्वीथाः क्षिती- श्वर ! । आषाढस्य सिते पक्षे द्बितीया पुष्यसंयुता ॥ तस्यां रथे समारोप्य रामं मां भद्रया सह । यात्रोत्सवं प्रवृत्त्याथ प्रीणयेच्च द्विजान् बहून् ॥ ऋक्षाभावे तिथौ कार्य्या सदा सा प्रीतये मम । सप्ताहं सरितस्तीरे मम यात्रा भविष्यति ॥ अष्टमे दिवसे सर्व्वान् रथान् माल्यैर्व्विभूषयेत् । नवम्यामानयेद्देवांस्तेषु प्रीतः समृद्धिदान् ॥ दक्षिणाभिमुखी यात्रा विष्णोरेषा सुदुर्लभा । यथा पूर्ब्बा तथा चेयं ते द्वे मुक्तिप्रदायिके ॥ अष्टाहे विसृजेच्छक्रं तदर्द्धेन तु पार्व्वतीम् ॥” इतिवत् तिथिना एकाहो बोद्धव्यः । “तिथिनैकेन दिवसश्चान्द्रमानेन कीर्त्तितः ॥” इति विष्णुधर्म्मोत्तरात् ॥ यत्तु । “आषाढस्य सिते पक्षे भद्रा सा पुष्यसंयुता । यात्रोत्सवं प्रकुर्व्वीथास्त्वभावे पुष्य एव हि ॥” इति ईश्वरसंहितायां वचनान्तरम् ॥ तद्वैकल्पिकप्रयोगान्तरविधायकम् । पाद्मे । “आषाढस्य द्वितीयायां रथं कुर्य्याद्बिशेषतः । आषाढशुक्लैकादश्यां जपहोममहोत्सवम् ॥ नातः परं हि कृष्णस्य यात्रान्तरमपेक्षते । अत्र स्वयं त्रिलोकेशः स्यन्दनेन कुतूहलात् ॥ नाशयन् सर्व्वपापानि वर्षे वर्षे व्रजेदसौ । रथस्थितं व्रजन्तं तं महावेदीमहोत्सवे ॥ ये पश्यन्ति मुदा भक्त्या वासस्तेषां हरेः पदे । सत्यं सत्यं पुनः सत्यं प्रतिज्ञातं द्बिजोत्तमाः ॥ नातः श्रेयःपदो विष्णोरुत्सवः शास्त्रसम्मतः । रथयात्रैव यात्राणां मुख्येत्याह प्रजापतिः ॥ महावेदीं व्रजन्तं तं रथस्थं पुरुषोत्तमम् । बलभद्रं सुभद्राञ्च दृष्ट्वा मुक्तिर्न चान्यथा ॥ आषाढस्य सिते पक्षे दिने विष्णोः शुभप्रदे । प्रतिष्ठाप्य समृद्धेन विधिना पूर्ब्बवद्द्विजाः ॥ रथं नरो हरेः कुर्य्यात् स्वासनं सुपरिष्कृतम् । भूषयेद्विविधैर्भक्त्या वस्त्रालङ्कारमाल्यकैः ॥ मृदङ्गपणबाद्यैश्च भेरीढक्कादयस्तथा । नटनर्त्तकमुख्याश्च गायना बहवस्तथा ॥ वेश्या यौवनदर्पाढ्या रूपालङ्कारभूषिताः । ध्वजाश्च बहवस्तत्र पताकाधिष्ठितान्तराः ॥ गरुडञ्च ध्वजं कुर्य्यात् रक्तचन्दनमिश्रितम् । दीर्घनासं पीतदेहं कुण्डलाभ्यां विभूषितम् ॥ चञ्च्वग्रदष्टभुजगं सर्व्वालङ्कारभूषितम् । देव्याः पद्मध्वजं कुर्य्यात् पद्मकाष्ठविनिर्म्मितम् ॥ सप्तच्छदमयं कुर्य्याच्छीरिणो लाङ्गलध्वजम् । सारथिं वाजिनञ्चैव बलं बलमुदान्वितम् ॥ हीरकैर्मङ्गलैर्दान्तैर्व्वलिवर्गैः सुशोभनम् । इत्थं सुघटितं तन्तु रथं देवत्रयस्य च ॥ अरुणोदयवेलायां देवं तस्मात् प्रपूजयेत् । ब्राह्मणैर्व्वैष्णवैः सार्द्धं यतिभिश्च तपस्विभिः ॥ विज्ञापयेद्देवदेवं यात्रायै स कृताञ्जलिः । ततः कर्पूरपर्णैश्च सुमनोभिरवाकिरत् ॥ पथि शोभनसूक्तानि प्रपठन्ति द्विजातयः । केचिन्मङ्गलगाथाश्च केचिज्जय जयेति च ॥ जितन्तु इति मन्त्रं वै केचित् पुष्पे जपन्ति च । सूतमागधमुख्याश्च कीर्त्तिं कार्ष्णीं मुदा जगुः ॥ चर्च्चरीझर्झरीवेणुवीणामाधुरिकादयः । शब्दायन्ते सुमधुरं गोविन्दविजयान्तरे ॥ एवं प्रवृत्ते समये कृष्णं रामपुरःसरम् । नयन्ति विप्रा भद्राञ्च क्षत्त्रियाश्च विशस्तथा ॥ करे धृत्वा जगन्नाथं भ्रामयित्वा रथत्रयम् । रामं भद्राञ्च कृष्णञ्च रथमध्ये निवेशयेत् ॥ पूजयेदुपत्त