वाचस्पत्यम्
यादृश is an alternate of यादृक्ष. यादृक्ष(श)(श्) || त्रि० यस्येव दर्शनमस्य यद् + दृश्—क्म (ट) क्विप् वा । यत्सदृशे यथाविधे । टान्तात्तु स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
यादृशः || त्रि (य इव दृश्यते । दृश् + “त्यदादिषु दृशः इति ।” ३ । २ । ६० । इति कञ् । “आसर्व्व- नाम्नः ।” ६ । ३ । ९१ । इत्याकारादेशः ।)
य इव दृश्यते सः । इति मुग्धबोधव्याकरणम् ॥ येमन इति भाषा । (यथा, मनुः । ४ । २५४ । “यादृशोऽस्य भवेदात्मा यादृशञ्च चिकीर्षितम् । यथा चोपचरेदेनं तथात्मानं निवेदयेत् ॥” स्त्रियां यादृशी ॥)