वाचस्पत्यम्
यामि || स्त्री यम—इन् । १ कुलस्त्रियां २ भगिन्यां अन्तःस्थ- यादौ रभसः । “या(जा)मयोयानि गेहानीति” मनुः । ३ रात्रौ शब्दर० । ४ यमपत्नोभेदे वह्निपु० “अरुन्धती वसु- र्यामिर्लम्बा भानुर्मरुत्वती । सङ्कल्पा च मूहूर्त्ता च साध्या विश्वा च नामतः । धर्मपत्न्यो दश त्वेतास्ताखपत्यानि मे शृणु” ।
शब्दकल्पद्रुमः
यामिः || स्त्री (याति कुलात् कुलान्तरमिति । या + बाहुलकात् मिः ।)
स्वसा । कुलस्त्री । इत्यमरः । २ । ३ । १४२ ॥ “स्वसा भगिनी । कुलस्त्री कुलबधूः । प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोरित्यन्तःस्थादौ रभसः ॥ जिह्मस्तु कुटिले निन्द्ये जामिः स्वसृकुलस्त्रियोरिति चवर्गतृतीयादावजयः इति भरतमुकुटौ ॥ यथा, जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥ इनि स्वामी ॥ जै क्षये बाहुलकान्मिः । यद्वा जमु अदने बाहुलकादिण् जामिरिति । अन्तः- स्थादौ या प्रापणे धातुर्बोध्यः ।” इति रामा- श्रमः ॥ (यथा, मनौ । ४ । १८३ । “यामयोऽप्सरसां लोके वैश्वदेवस्य वान्धवाः ॥”)
यामिनी । इति शब्दरत्नावली ॥ धर्म्मस्य पत्नी । तस्याः कन्या नागवीथी । यथा, —
“अरुन्धती वसुर्यामिर्लम्बा भानुर्मरुत्वती । सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः । धर्म्मपत्न्यो दश त्वैतास्तास्वपत्यानि मे शृणु । लम्बायाश्चैव घोषोऽसौ नागवीथी तु यामिजा ॥” इति वह्निपुराणे कश्यपीयप्रजासर्गः ॥