संस्कृत-शब्दकोशः

यामिनीपति यामुन

यामी

वाचस्पत्यम्

यामी ||‍ स्त्री यमस्येयम् यमो देवतास्या वा तस्येयं वां अण् ङीप् १ दक्षिणस्यां दिशि २ यमसम्बन्धिन्यां यातनायां ३ भ- रणीतारायां च । यामि + वा ङीप् । ४ यामिशब्दार्थे च ।


शब्दकल्पद्रुमः

यामी || स्त्री (यमस्येयम् । यमो देवतास्याः इति वा । यम + अण् । ङीप् ।)
दक्षिणदिक् । इति राजनिर्घण्टः ॥ (यथा, ज्योतिषे । “—याम्यां गुरौ न व्रजेत् ।” यामि + ङीष् ।)
कुलस्त्री । इति शब्दरत्ना- वली ॥ (यथा, मनौ । ४ । १८० । “मातापितृभ्यां यामीभिर्भ्रात्रा पुत्त्रेण भार्य्यया । दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥” धर्म्मपत्नी । यथा, विष्णुपुराणे । १ । १५ । १०५ । “अरुन्धती वसुर्यामी लम्बा भानुमरुत्वती । सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च ता दश ॥”)



Correction: