संस्कृत-शब्दकोशः

यामी यामुनेष्टक

यामुन

शब्दकल्पद्रुमः

यामुनं || क्ली (यमुनायां भवम् । यमुना + अण् । यमुनाया इदमित्यण् वा ।)
श्रोतोऽञ्जनम् । इत्य- मरः । २ । ९ । १०० ॥ (अस्य पर्य्यायो यथा, —
“अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि । तत्तु श्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरितम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
पुं, जनपदभेदः । यथा, भागवते । १ । १० । ३४ । “कुरुजाङ्गलपाञ्चालान् शूरसेनान् स यामुनान् । ब्रह्मावर्त्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥” पर्व्वतविशेषः । यथा, रामायणे । ४ । ४० । २१ । “कालिन्दीं यमुनां रम्यां यामुनञ्च महा- गिरिम् ।” तीर्थभेदः । यथा, महाभारते । ३ । ८४ । ४१ । “यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम् । अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ॥”)
यमुनासम्बन्धिनि, त्रि । (यथा, प्रायश्चित्ततत्त्वे । “त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् । नार्म्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्य्यति ॥”)



Correction: