शब्दकल्पद्रुमः
यामेयः || पुं, भागिनेयः । यामिः स्वसृकुलस्त्रियो- रित्यनुशासनात् यामेरपत्यमित्यर्थे ष्णेय-(ढक्)
प्रत्ययनिष्पन्नः ॥ (याम्या धर्म्मपत्न्या अपत्य- मिति । यामिपुत्त्रः । यथा, भागवते । ६ । ६ । ६ । “ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः । भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततोऽभवत् ॥”)