वाचस्पत्यम्
याम्य || पु० यामी दिक् निवासोऽस्य यत् । १ अगस्त्ये २ चन्दन- वृक्षे च मेदि० । यमोदेवतास्य तस्येदं वा ण्य । ३ यम- सम्बन्धिनि त्रि० ४ भरणीनक्षत्रे च ज्यो० ५ दक्षिण- देशस्थे त्रि० ।
शब्दकल्पद्रुमः
याम्यः || पुं, (यामी निवासोऽस्य । यामी + यत् ।)
अगस्त्यमुनिः । चन्दनवृक्षः । इति मेदिनी । ये, ४८ ॥ (यमस्यायमिति । यम + ण्यः । यमदूतः । यथा, मार्कण्डेये । ११ । ३० । “कृष्यमाणस्य याम्यैश्च नरकेषु च पात्यतः । पूनश्च गर्भो जन्माथ मरणं नरकस्तथा ॥”)