संस्कृत-शब्दकोशः

यावक यावतिथ

यावज्जीव

शब्दकल्पद्रुमः

यावज्जीवं || व्य, क्ली, (यावत् जीवतीति । जीव + “यावति विन्दजीवोः ।” ३ । ४ । ३० । इति णमुल् ।)
यावदायुः । जीवनपर्य्यन्तम् । यथा, “यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता । माता च मम बन्ध्यासीदपुत्त्रश्च पिता मम ॥” इति आहतशब्दटीकायां भरतः ॥



Correction: