शब्दकल्पद्रुमः
यावकः || पुं, (यव एव यावः स इवेति इवार्थे कन् । यद्बा, याव एव । याव + “यावादिद्यः कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।)
कुल्मासः । इत्यमरः । २ । ९ । १९ ॥ “द्वे वोरोध्यान्ये । कुलत्थ इत्यन्ये माषाकृतिपत्रे काश्मीरेषु तुल- सीति ख्याते । इति सुभूतिः ॥ यव इव गुणेन इति यवकः विकारसंघेति कः । यवक एव यावकः स्वार्थे ष्णः । कुलेन मस्यति परिणमति कुल्मासः मसीर्य ई परिमाणे परीणामे घञ् मनीषादित्वादलुक् । कुल्मासो दन्त्यसकारवान् मूर्द्ध्वन्यषकारवांश्च । कुल्मासो रभसश्चेति दन्त्यान्ते रक्षित इति मधुः ॥ कुल्माषो यावके पुंसि काञ्जिके तु नपुंसकमिति, मूर्द्धन्यान्ते रभसः ।” इति भरतः ॥ “यवकः स्यात्तु कुल्माषः कुल्मासो यावकोऽपि च वोरवाख्ये षष्टिके वा कुल्मे काश्मीरदेशजे । शालिधान्येषु चत्वार इति केचित् प्रचक्षते ॥” इति शब्दरत्नावली ॥ * ॥
यावान्नम् । इति हेमचन्द्रः ॥ (यथा, मनौ । ११ । १२६ । “सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनी करणीयेषु तप्तः स्याद्यावकैस्त्र्यहम् ॥”)
अलक्तकः । इति शब्दरत्नावली ॥ (यथा, किराते । ५ । ३९ । “इह सनियमयोः सुरापगाया- मुषसि सयावकसव्यपादलेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्त्तनेषु ॥”)