वाचस्पत्यम्
यावशूक || पु० यवशूकस्य विकारः अण् । यवक्षारे रत्नमा० ।
शब्दकल्पद्रुमः
यावशूकः || पुं, (यवशूक एव । यवशूक + स्वार्थे- ऽण् । यद्बा, यावस्य यवस्य शूकः कारणत्वेना- स्त्यस्येति । अर्शआद्यच् ।)
यवक्षारः । इति रत्नमाला ॥ (यथा, सुश्रुते चिकित्सास्थाने १ अध्याये । “क्षौमं प्लोतं पिचुं फेनं यावशूकं ससन्धवम् । कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ॥”)