वाचस्पत्यम्
याष्टीक || पु० यष्टिः प्रहरणमस्य ईकक् । यष्ट्या योद्धरि अमरः ।
शब्दकल्पद्रुमः
याष्टीकः || पुं, (यष्टिः प्रहरणमस्य । यष्टि + “शक्ति- यष्ट्योरीकक् ।” ४ । ४ । ५९ । इति ईकक् ।)
यष्टिधारियोद्धा । लेठेरा इति भाषा । तत्- पर्य्यायः । यष्टिहेतिकः २ । इत्यमरः । २ । ८ । ७० ॥ (यथा, राजतरङ्गिण्याम् । ६ । २०३ । “आकलप्य द्रुतं दिष्ठ्या सन्त्यज्य प्रार्थनादिकम् । पृष्ठे प्रत्युत याष्ठीकांस्तस्य हन्तुं व्यसर्जयत् ॥”)