वाचस्पत्यम्
युक्त || त्रि० युज—क्त । १ मिणिते मेदि० । २ अभ्यासवशाद् सदा सर्वविषयकज्ञानयुते योगिनि पु० भाषा० ३ उचिते ४ न्या- यागतद्रव्यादौ च न० अमरः ५ (एलानी) वृक्षभेदे स्त्री रत्नमा० ।
शब्दकल्पद्रुमः
युक्तं || क्ली (युज् + क्तः ।)
हस्तचतुष्टयम् । इति मेदिनी । ते, ४७ ॥
शब्दकल्पद्रुमः
युक्तं || त्रि (युज्यत स्म इति । युज् + क्तः ।)
न्याय्यम् । तत्तु न्यायागतद्रव्यादिकम् । इत्यमरः । २ । ८ । २४ ॥ (यथा, शाकुन्तले । १ अङ्के । “जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥”)
अपृथग्भूतम् । मिलितमित्यर्थः । इति मेदिनी । ते, ४७ ॥ (यथा, आनन्दलहर्य्याम् । १ । “शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥”)
शब्दकल्पद्रुमः
युक्तः || पुं, (युज्यते स्म योगेनेति । युज् + क्तः ।)
अभ्यस्तयोगः । यथा, —
“योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदे । ६६ ॥ तस्य लक्षणं यथा, गीतायाम् । ६ । ८ । “ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥” “योगारूढस्य लक्षणं श्रैष्ठ्यं चोक्तमुपसंहरति ज्ञानेति । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानु- भवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्व्विकारः । अतएव विजितानि इन्द्रियाणि येन । अतएव समानि लोष्टादीनि यस्य । मृत्खण्डपाषाणसुवर्णेषु हेयोपादेयबुद्धिशून्यः स युक्तो योगारूढ इत्यु- च्यते ॥” इति तट्टीकायां श्रीधरस्वामी ॥ (रैवतमनोः पुत्त्रः । यथा, हरिवंशे । ७ । २८ । “अथ पुत्त्रानिमांस्तस्य निबोध गदतो मम । धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥”)