संस्कृत-शब्दकोशः

युक्ति युगकीलक

युग

वाचस्पत्यम्

युग ||‍ न० युगि—अच् पृषो० नलोपः । १ युग्मे द्वित्वसंख्यान्विते सत्यत्रेताद्वापरकलिरूपे २ कालविशेषे ३ वृद्धिनामौषधे ४ हस्तचतुष्कपरिमाणे ५ रथहलादेरङ्गभेदे पु० (जो- याल) मेदि० ।


वाचस्पत्यम्

युग ||‍ वर्जने भ्वा० पर० सक० सेट् इदित् । युङ्गति अयुङ्गीत् ।


शब्दकल्पद्रुमः

युग || इ वर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
अन्तःस्थादिः । इ, युङ्ग्यते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

युगं || क्ली (युज्यत इति । युज् + घञ् । कुत्वम् । न गुणः । “युजेर्घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनमिदमिष्यते । काल- विशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगो- ऽन्यत्र योग एव भवति ।” इति काशिका । ६ । १ । १६० ।)
युग्मम् । (यथा, शिशुपालवधे । ९ । ७२ । “उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । रभसोत्थितामुपगतः सहसा परिरंभ्य कश्चन बधूमरुधत् ॥”)
कृतादिकालचतुष्टयम् । (यथा, गीतायाम् । ४ । ८ । “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥”)
वृद्धिनामौषधम् । हस्तचतुष्कम् । इति मेदिनी । गे, १९ ॥ (यथा, मार्कण्डेये । ४९ । ३९ । “द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्यादिवेष्टयन् । चतुर्हस्तं धनुर्दण्डो नाडिका युगमेव च ॥”)
देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति । मनुष्यमानेन चतुर्युगपरिमाणं विंशतिसहस्रा- धिकत्रिचत्वारिंशल्लक्षम् । तत्र सत्ययुगस्य मानम् १७२८००० वर्षाः । त्रेतायुगस्य १२९६००० वर्षाः । द्वापरयुगस्य ८६४००० वर्षाः । कलि- युगस्य ४३२००० वर्षाः । इति श्रीभागवतमतम् ॥ तेषां भारतवर्षवर्त्तित्वं विवरणञ्च यथा, —
“चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् । कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् ॥ पूर्व्वं कृतयुगं नाम ततस्त्रेता विधीयते । द्वापरञ्च कलिश्चैव युगानि परिकल्पयन् ॥ चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् । तस्य तावत् शती सन्ध्या सन्ध्यां शश्च तथाविधः ॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥ त्रेतां त्रीणि सहस्राणि युगसंख्याविदो विदुः । तस्यापि त्रिशती सन्ध्या सन्ध्यांशः सन्ध्यया समः ॥ द्बे सहस्रे द्बापरे तु सन्ध्यांशौ तु चतुःशते । सहस्रमेकं वर्षाणां दिव्यं कलौ प्रकीर्त्तितम् ॥ द्बे शते च तथान्ये वै संख्यातञ्च मनीषिभिः । एषा द्बादशसाहस्री युगसंख्या तु संज्ञिता ॥ कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् । तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत ॥ चत्वारिंशत्तथा त्रीणि कृतं युगमथोच्यते । विंशतिश्च सहस्राणि कालो ह्येष चतुर्युगः ॥ पृथक्त्वेनेह वक्ष्यामि युगानि तु निबोधत । नियुतानि दश द्वे च पञ्च चैवात्र संख्यया ॥ अष्टाविंशसहस्राणि कृतं युगमथोच्यते । अयुतन्तु तथा पूर्णं द्वे चान्ये नियुते पुनः ॥ षट्त्रिंशच्च सहस्राणि संख्यातानि तु संख्यया । त्रेतायुगस्य संख्यैषा मानुषेण तु कीर्त्तिता ॥ अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु । चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥ चत्वारि नियुतानि स्युर्वर्षाणान्तु चतुर्युगम् । द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया ॥ एतत् कलियुगं प्रोक्तं मानुषेण प्रमाणतः । एषा चतुर्युगावस्था मानुषेण प्रकीर्त्तिता ॥ चतुर्युगस्य संख्याता सन्ध्या सन्ध्यांशकेन च । । एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः । कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥” इति मात्स्ये ११८ अध्यायः ॥ * ॥
युगधर्म्मो यथा, —
“ध्यानं परं कृतयुगे त्रेतायां ज्ञानमध्वरः । द्बापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥ ब्रह्मा विष्णुस्तथा सूर्य्यः सर्व्व एव कलिष्वपि । पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥ आद्ये कृतयुगे धर्म्मश्चतुष्पादः सनातनः । त्रेतायुगे त्रिपादः स्याद्द्विपादो द्बापरे स्थितः । त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति ॥” इति कूर्म्मपुराणे युगधर्म्मकीर्त्तनं नाम २८ अध्यायः ॥ * ॥
युगावतारा यथा, —
“कृते युगे परं ज्ञानं कपिलादिस्वरूपभृत् । ददाति सर्व्वभूतात्मा सर्व्वभूतहिते रत्रः ॥ चक्रवर्त्तिस्वरूपेण त्रेतायामपि स प्रभुः । दुष्टानां निग्रहं कुर्व्वन् परिपाति जगत्त्रयम् ॥ वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ वेदांस्तु द्बापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तान् मार्गे स्थापयति प्रभुः ॥ एवमेष जगत् सर्व्वं परिपाति करोति च । हन्ति चान्येष्वनन्तात्मा नास्त्यस्माद्ब्यतिरेकि यत् ॥” इति विष्णुपुराणे ३ अंशे २ अध्यायः ॥ * ॥
युगधर्म्मान्तरं यथा, — जैमिनिरुवाच । “कलौ युगे महाभाग ! समायाते सुदारुणे । भविष्यन्ति जनाः सर्व्वे कीदृशास्तद्बदस्व मे ॥ व्यास उवाच । आद्यं सत्ययुगं प्राहुस्ततस्त्रेताह्वयं युगम् । ततश्च द्बापरं विप्र ! कलिमन्त्यं विदुर्बुधाः ॥ कृते धर्म्मश्चतुष्पादः सर्व्वधर्म्मरता जनाः । वर्णाश्रमाचाररतास्तपोव्रतपरायणाः ॥ नारायणार्च्चनपराः शोकव्याधिविवर्जिताः । सत्योक्तिभाषिणः सर्व्वे सदया दीर्घजीविनः ॥ धनधान्यादिसम्पन्ना हिंसादम्भविवर्ज्जिताः । परोपकारिणश्चैव सर्व्वशास्त्रविदस्तथा ॥ एवंविधाः सत्ययुगे सर्व्वे लोका द्विजोत्तम ! । राजधर्म्मग्राहिणश्च भूपाला जनपालिनः ॥ अहो सत्ययुगस्यास्ति कः संख्यातुं गुणान् क्षमः ॥ अधर्म्माचरणं तत्र जनाः केचिन्न कुर्व्वते ॥ * ॥
त्रेतायुगे समायाते धर्म्मः पादोनतां गतः । अल्पक्लेशान्विता लोकाःकेचित् केचिद्दयाशयाः । विष्णुध्यानरता लोका यज्ञदानपरायणाः । वर्णाश्रमाचाररताः सुखिनः सुस्थचेतसः ॥ क्षत्त्रा भूमिस्पृशः शूद्राः सर्व्वे ब्राह्मणसेविनः । ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः ॥ प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः । तपोव्रतरता नित्यं दातारो विष्णुसेविनः ॥ कालवर्षी तडित्वांश्च स्त्रियः सर्व्वाः पतिव्रताः । वसुन्धरा च शस्याढ्या पुत्त्राश्च पितृसेविनः ॥ * ॥
त्रेतायुगस्यावसाने द्वापरे युग आगते । द्विपादो भूतवान् धर्म्मः सुखदुःखान्विता नराः ॥ केचित् केचित् पापरताः केचिद्धर्म्मरतास्तथा । केचित् केचित् गुणैर्हीनाः केचित् केचिन्महा- गुणाः ॥ अत्यन्तदुःखिनः केचित् केचित् चातिधनास्तथा । प्रतिग्रहे ब्राह्मणाश्च कदाचित् कुर्व्वते स्पृहाम् । भूभुजा धनलोभेन कदाचिद्दण्ड्यते प्रजाः । विष्णुपूजापरा विप्राः शूद्राश्च द्बिजसेविनः ॥ तदा विष्णुर्व्यासरूपी वेदभागं चकार ह ॥ * ॥
कलौ युगे च विप्रेन्द्र ! सर्व्वपापैकमन्दिरे । एकपादोऽभवद्धर्म्मः सर्व्वे पापरता जनाः ॥ ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राः पापपरायणाः । निजाचारविहीनाश्च भविष्यन्ति कलौ युगे ॥ विप्रा वेदविहीनाश्च प्रतिग्रहपरायणाः । अत्यन्तकामिनः क्रूरा भविष्यन्ति कलौ युगे ॥ परान्नलोलुपा नित्यं तपोव्रतपराङ्मुखाः । पाषण्डसङ्गलुब्धाश्च भविष्यन्ति कलौ युगे ॥ वित्तार्थं ब्राह्मणाः केचिन्महाकपटधर्म्मिणः । बल्काधरा भविष्यन्ति जटिलाः श्मश्रुधारिणः । कलौ युगे भविष्यन्ति ब्राह्मणाः शूद्रधर्म्मिणः ॥ शूद्राश्च दीक्षागुरवो नित्यं ब्राह्मणधर्म्मिणः । कलौ यास्यन्ति निर्वृत्ता उत्तमा अपि नीचताम् ॥ नीचाश्च धनसम्पन्ना यास्यन्त्युच्चपदं प्रति । प्रदास्यन्त्युपकारिभ्यो दानानि सकला जनाः ॥ यत्नादपि च नेष्यन्ति वृषला विप्रवर्त्तनम् । मित्रस्नेहाद्वदिष्यन्ति कुसाक्ष्यञ्च कलौ जनाः ॥ अधर्म्मबुद्धिदातारो धर्म्मबुद्धिविलोपिनः । परोक्षनिन्दकाः क्रूराः संमुखप्रियवादिनः ॥ परश्रीहिंसकाश्चैव मिथ्यावचनभाषिणः । भविष्यन्ति कलौ विप्राः परवित्ताभिलाषिणः ॥ गृहमायान्तमतिथिं समाराध्य विधानतः । धनलोभाद्धनिष्यन्ति नरा नरकभागिनः । ऋणोपजीविनश्चैव भविष्यन्ति कलौ युगे ॥ स्त्रीजिताः पुरुषाः सर्व्वे स्त्रियोऽप्यत्यन्तचञ्चलाः । दुर्नीतिर्व्वाधते तासां स्वामिनञ्च न संशयः ॥ जैमिनिरुवाच । मनःशुद्धिविहीनत्वात् सर्व्वेषां प्राणिनां मुने ! । अतः सर्व्वं त्वया प्रोक्तं मनो विस्मयदं मम ॥ कलौ सर्व्वे भविष्यन्ति मनःशुद्धिविवर्जिताः । तेषां यथा भवेत् कर्म्म सफलं ब्रूहि तद्गुरो ! ॥ व्यास उवाच । अनर्पितन्तु यत् कर्म्म तद्भवेन्निष्फलं खलु । एकेन मनसा विप्र ! सुदृढं कथ्यते मया ॥ विष्णुभक्तिमतां पुंसां न किञ्चिद्विफलं भवेत् । इति ते कथितं सर्व्वं व्यक्तं ब्राह्मणसत्तम ! । यत् श्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् ॥” इति पाद्मे क्रियायोगसारे २५ अध्यायः ॥ * ॥
अपि च । “कृते धर्म्मश्चतुष्पाच्च सत्यं दानं तपो दया । धर्म्मपाता हरिः श्वेतः सन्तुष्टा ज्ञानिनो नराः । चतुर्व्वर्षसहस्राणि नरा जीवन्ति वै तदा ॥ कृतान्ते क्षत्त्रियैर्विप्रा विट्शूद्राश्च जिता द्बिजैः । शूरस्य प्रणतिः पुत्त्रो विष्णुः क्षत्त्रं जघान ह ॥ * ॥
त्रेतायुगे त्रिपाद्धर्म्मः सत्यदानदयात्मकः । नरा यज्ञपरास्तस्मिंस्तथा क्षत्त्रोद्भवं जगत् ॥ रक्तो हरिर्नरैः पूज्यो नरा दशशतायुषः । तत्र विष्णुर्भीमरथः क्षत्त्रियो राक्षसानहन् ॥ * ॥
द्विपाच्च द्बापरे धर्म्मः पीतताञ्चाच्युते गते । चतुःशतायुषो लोका द्बिजक्षत्त्रोत्तराः प्रजाः ॥ तदा दृष्ट्वाल्पबुद्धींश्च विष्णुर्व्यासस्वरूपधृक् । तदेकन्तु यजुर्व्वेदं चतुर्धा विभजत् पुनः ॥ शिष्यानध्यापयामास नामतस्तान्निबोध मे । ऋग्वेदमथ पौलस्त्यं सामवेदञ्च जैमिनिम् ॥ अथर्व्वाणं सुमन्तुन्तु यजुर्व्वेदं महामुनिम् । वैशम्पायनसंज्ञन्तु पुराणं सूतमेव च ॥ अष्टादश पुराणानि येषु वै हरिरेव हि । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् ॥ ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतन्तथा । भविष्यं नारदीयञ्च पुराणञ्चेति विस्तरम् ॥ मार्कण्डेयं तथाग्नेयं ब्रह्मवैवर्त्तमेव च । कौर्म्मं मात्स्यं गारुडञ्च वायवीयमनन्तरम् ॥ अष्टादशं समुदितं ब्रह्माण्डमिति संज्ञितम् । अन्यान्युपपुराणानि मुनिभिः कथितानि तु ॥ आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् । तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥ चतुर्थं शिवधर्म्माख्यं साक्षान्नन्दीशभाषितम् । दुर्व्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम् ॥ कापिलं वामनञ्चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च ॥ माहेश्वरं तथा शाम्बं सौरसर्व्वार्थसञ्चयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ पुराणं धर्म्मशास्त्रञ्च वेदा अङ्गानि यन्मुने ! । न्यायः शौनक ! मीमांसा आयुर्व्वेदार्थशास्त्रकम् । गान्धर्व्वश्च धनुर्व्वेदो विद्या ह्यष्टादश स्मृताः । द्बापरान्ते स च हरिर्भुवो भारमपाहरत् ॥ * ॥
एकपादस्थिते धर्म्मे कृष्णताञ्चाच्युते गते । जनास्तदा दुराचारा भविष्यन्ति च निर्द्दयाः ॥ सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥ प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥ यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् । तदा त्रेता रजीवृत्तिरिति जानीहि शौनक ! ॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः । कर्म्मणाञ्चापि काम्यानां द्वापरन्तद्रजस्तमः ॥ यदा सदानृतं तन्द्रीनिद्राहिंसादिसाधनम् । शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥ यस्मिन् जनाः कामिनोपि शश्वत्कटुकभाषिणः । दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥ राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः । अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ॥ तपस्विनो ग्रामवासा न्यासिनो नित्यलोलुपाः । ह्रस्वकाया महाहाराश्चौर्य्यमायोरुसाहसाः ॥ त्यक्ष्यन्ति भृत्याश्च पतिं भृत्यं भर्त्तार एव च । शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ॥ उद्बिग्नाश्चानलङ्काराः पिशाचसदृशाः प्रजाः । अस्नातभोजनेनाग्निदेवतातिथिपूजनम् । करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ स्त्रीपराश्च जनाः सर्व्वे शूद्रप्रायाश्च शौनक ! । बहुप्रजाल्पभाम्याश्च भविष्यन्ति कलौ स्त्रियः ॥ शिरःकण्डूयनपरा आज्ञां मेत्स्यन्ति सत्पतेः । विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ॥ कलेर्दोषनिधेर्विप्र अस्ति ह्येको महान् गुणः । कीर्त्तनदेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥ कृते यद्ध्यायतो विष्णुं त्रेतायां यजतः फलम् । द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात् ॥ तस्माज्ज्ञेयो हरिर्नित्यं ध्येयः पूज्यश्च शौनक ॥” इति गारुडे युगधर्म्माः । २२७ अध्यायः ॥


शब्दकल्पद्रुमः

युगः || पुं, (युज्येते वलीवर्द्धौ अस्मिन्निति । युज् + घञ् । युजेर्घञन्तस्य निपातनादगुणत्वम् । इति काशिका । ६ । १ । १६० ।)
रथहला- द्यङ्गम् । इति मेदिनी । गे, १९ ॥ जोयालि इति भाषा । (यथा, —
“नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ॥” इति ऋग्वेदे । २ । ३९ । ४ ॥ “युगा इव यथा रथस्य युगे नभ्या इव ।” इति तद्भाष्ये सायणः ॥ तथा च कथासरित्सागरे । ६० । १२ । “तस्यैकदा बणिज्यार्थं गच्छतो मथुरां पुरीम् । भारवोढा युगं कर्षन् भारेण युगभग्नतः ॥”)



Correction: