संस्कृत-शब्दकोशः

युगकीलक युगपत्

युगन्धर

वाचस्पत्यम्

युगन्धर ||‍ पु० युनं रथस्य युगकाष्ठं धरति धृ खच् । रथस्य युगकाष्ठासञ्जने कुवराख्ये १ काष्ठभेदे अमरः । २ पर्वतभेदे च शब्दर० ।


शब्दकल्पद्रुमः

युगन्धरः || पुं, (युगं धारयतीति । धारि + “संज्ञायां भृतॄवृजिधारिसहितपिदमः ।” ३ । २ । ४६ । इति खच् । “अरुर्द्विषदन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् ।)
यत्र रथस्य युगकाष्ठमासज्यते तत्र । रथस्याश्वा यत्र वध्यन्ते तद्युगकाष्ठं तद्युगं धरति युगन्धरः । इति भरतः ॥ तत्पर्य्यायः । कूवरः २ । इत्यमरः । २ । ८ । ५७ ॥ पर्व्वत- विशेषः । यथा, —
“निषधो माल्यवान् विन्ध्यो हेमकूटो युगन्धरः ॥” इति शब्दरत्नावली ॥ (तूणिपुत्त्रः । स च सात्यकेः पौत्त्रः । यथा, हरिवंशे । १६० । ३१ । “तूणेर्युगन्धरः पुत्त्र इति वंशः समाप्यते ॥”)



Correction: