वाचस्पत्यम्
युगपार्श्वग || पु० युगपार्श्वे गच्छति गम—ड । अभ्य सार्थं ला- ङ्गलपार्श्वे बद्धे वृषे अमरः ।
शब्दकल्पद्रुमः
युगपार्श्वगः || पुं, (युगस्य पार्श्वं गच्छतीति । गम् + डः ।)
अभ्यासार्थं लाङ्गलपार्श्वबद्धो गौः । पाँटे वाँधा गरु इति भाषा । तत्पर्य्यायः । प्रष्ठ- वाट् २ । इत्यमरः । २ । ९ । ६३ ॥