वाचस्पत्यम्
युगल || न० युगं द्वित्वं लाति ला—क । युग्मे द्वित्वसंख्यान्विते अमरः ।
शब्दकल्पद्रुमः
युगलं || क्ली (युज्यते परस्परं संगच्छत इति । युज् + वृषादिभ्यः कलच् । न्यङ्क्वादित्वात् कुत्वम् ।)
युग्मम् । इत्यमरः । २ । ५ । ३८ ॥ (यथा, भागवते । ४ । २६ । २० । “पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥”)