वाचस्पत्यम्
युच्छ || प्रमादे भ्वा० पर० सक० सेट् । युच्छति अयुच्छीत् ।
शब्दकल्पद्रुमः
युच्छ || प्रमादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
अन्तःस्थाद्यादिः पञ्चम- स्वरी । प्रमादोऽनवधानता । युच्छति पापे साधुः । ओष्ठ्यवर्गाद्यादिरिति रमानाथः । पचादित्वादनि पुच्छो लाङ्गूलम् । ओष्ठ्यवर्ग- शेषादिरिति त्रिलोचनः । मुच्छति । इति दुर्गादासः ॥