संस्कृत-शब्दकोशः

युञ्जान युतक

युत

वाचस्पत्यम्

युत ||‍ त्रि० यु—क्त । १ संयुक्ते २ मिलिते ३ अमिलिते च । ४ हस्तचतुष्टयमाने न० मेदि० ।


वाचस्पत्यम्

युत ||‍ दीप्तौ भ्वा० आ० अक० सेट् । योतते । अयोतिष्ट । ऋ- दित् चङि न ह्रस्वः ।


शब्दकल्पद्रुमः

युत || ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
ऋ, अयुयोतत् । ङ, योतते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

युतं || क्ली (यु + क्तः ।)
हस्तचतुष्टयम् । इति मेदिनी । ते, ४७ ॥


शब्दकल्पद्रुमः

युतः || त्रि (यु + क्तः ।)
युक्तः । अपृथग्- भूतः । इति मेदिनी । ते, ४७ ॥ (यथा, भट्टिकाव्ये । १ । ७ । “स्त्रीभिर्युतान्यप्सरसामिवौघै- र्मरोः शिरांसीव गृहाणि यस्याम् ॥”)



Correction: