वाचस्पत्यम्
युयुधान || पु० युध—कानच् द्वित्वम् । १ इन्द्रे सात्यकिनामनि यादवे क्षत्रियभेदे त्रिका० । २ क्षत्रियमात्रे च संक्षिप्तसा० ।
शब्दकल्पद्रुमः
युयुधानः || पुं, (युध्यतेऽसौ । युध + “मुचियुधिभ्यां सन्वच्च ।” उणा० २ । ९१ । इत्यानच् कित्कार्य्यं सन्वत्कार्य्यञ्च ।)
सात्यकिः । यथा, —
“शैनेयस्तु शिनेर्नप्ता युयुधानश्च सात्यकिः ॥” इति त्रिकाण्डशेषः ॥ इन्द्रः । क्षत्त्रियः । इति संक्षिप्तसारोणादि- वृत्तिः ॥ त्रि, योद्धा च ॥