वाचस्पत्यम्
युवगण्ड || पु० ६ त० । यूनो गण्डस्थव्रणभेदे । (वयस्फोडा) शब्दर० ।
शब्दकल्पद्रुमः
युवगण्डः || पुं, (यूणां गण्ड आश्रयत्वेनास्त्यस्य । युव- गण्ड + अर्शआद्यच् ।)
यूनो गण्डस्थव्रणविशेषः । वयस्फोडा इति भाषा । यथा, —
“युवगण्डो यवगण्डः स्यात् वयस्फोटाह्वये द्वयम् ॥” इति शब्दरत्नावली ॥