संस्कृत-शब्दकोशः

यूथनाथ यूथभ्रष्ट

यूथप

शब्दकल्पद्रुमः

यूथपः || पुं, (यूथं पातीति । पा + कः ।)
अरण्य- हस्तिनां प्रधानम् । इति शब्दरत्नावली ॥ (यथा, श्रीमद्भागवते । ९ । १५ । २८ । “घोरमादाय परशुं सतूणं वर्म्मकार्म्मुकम् । अन्वधावत दुर्म्मर्षो मृगेन्द्र इव यूथपम् ॥” प्रधानमात्रे च । यथा, महाभारते । १ । १८ । ५ । “राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । चरन् मैथुनधर्म्मस्थं ददर्श मृगयूथपम् ॥”)



Correction: