वाचस्पत्यम्
योगपट्ट || न० योगाभ्यासार्थं पट्टम् । योगिधार्य्ये पट्ट- सूत्रभेदे योगपदकमप्यत्र । “त्रिविधं योगपदकमाद्यं व्याघ्राजिनोद्भवम् । द्वितीयं मृगचर्माढ्यं तृतीयं तन्तु- निर्मितम् । चतुर्मात्रप्रविस्तारं दैर्घ्येण यज्ञसूत्रवत्” सिद्धान्तशेखरः । चतुर्मात्रं चतुरङ्गलमात्रम् वीरमि० ।
शब्दकल्पद्रुमः
योगपट्टं || क्ली (योगस्य पट्टं वसनविशेषः । योगार्थं पट्टमिति वा ।)
यद्बस्त्रेण पृष्ठजानुबन्धनं भवति तत् । यथा, —
“पादुके योगपट्टञ्च तर्ज्जन्यां रौप्यधारणम् । न जीवत्पितृकः कुर्य्यात् ज्येष्ठे भ्रातरि जीवति ॥” तल्लक्षणं यथा, —
“पृष्ठजान्वोः समायोगे वस्त्रं वलयवद्दृढम् । परिवेष्ट्य यदूर्द्ध्वज्ञुस्तिष्ठेत्तद्योगपट्टकम् ॥” इति पाद्मे कार्त्तिकर्माहात्म्ये २ अध्यायः ॥ (योगपदकम् । उत्तरीयचिशेषः । यथा, याज्ञ- वल्क्यः । “अभावे घौतवस्त्राणां शाणक्षौमाविकानि च । कुतपो योगपट्टं वा द्विर्व्वासा येन वा भवेत् ॥”)
इत्याह्निकतत्त्वम् ॥)