शब्दकल्पद्रुमः
योगपदकं || क्ली (योगस्य पदकम् ।)
पूजादौ धार्य्योत्तरीयविशेषः । योगपाटा इति भाषा ॥ यथा, —
“त्रिविधं योगपदकमाद्यं व्याघ्राजिनोद्भवम् । द्बितीयं मृगचर्म्माढ्यं तृतीयं तन्तुनिर्म्मितम् । चतुर्म्मात्रप्रविस्तारं दैर्घेण यज्ञसूत्रवत् ॥ चतुर्म्मात्रं चतुरङ्गुलमात्रम् ॥” इति वीर- मित्रोदयधृतसिद्धान्तशेखरः ॥