संस्कृत-शब्दकोशः

योगपदक योगमाया

योगपीठ

वाचस्पत्यम्

योगपीठ ||‍ पुंन० योगयोग्यं पीठमासनम् । देवादीमासनभेदे


शब्दकल्पद्रुमः

योगपीठं || क्ली (योगस्य योगार्थं वा पीठमास- नम् ।)
देवानां योगासनम् । यथा, —
“मण्डलं योगपीठन्तु पद्मं पद्मे विचिन्तयेत् । शावादीन्यासनानीह चत्वार्य्यपि विचिन्तयेत् ॥ योगपीठं पृथग्ध्यात्वा मण्डलेन सहैकताम् । पुनर्ध्यात्वा ततः पश्चात् पूजयेदासनं ततः ॥ ध्यानेन योगपीठस्य ध्यात्वा यद्दीयते जलम् । नैवेद्यपुष्पधूपादि तत् स्वयञ्चोपतिष्ठते ॥ सर्व्वे देवाः सगन्धर्व्वाः सचराचरगुह्यकाः । चिन्तिताः पूजिताश्च स्युर्य्योगपीठस्य पूजने ॥” इति कालिकापुराणे ५६ अध्यायः ॥



Correction: