वाचस्पत्यम्
योगरूढ || पु० योगोऽवयवशक्तिः रूढिः समुदायशक्तिः एते स्तोऽस्य अच् । अवयवशक्त्या समुदायशक्त्या च अर्थ- बोधके पङ्कजशब्दादौ । तत्र हि उभयशक्त्या पङ्कजन्म- कर्तृत्वरूपावयवार्थविशिष्टपद्मत्वविशिष्टस्व बोधः । उभ- यार्थबोधनाच्च पङ्कजाते कुमुदादौ स्थलजाते पद्मे च न तत्पदप्रयोगप्रसङ्गः ।
शब्दकल्पद्रुमः
योगरूढः || पुं, (योगार्थप्रतिपादको रूढः ।)
योगार्थसहभावेन रूढ्यर्थबोधकशब्दः । यथा, “योगरूढाश्च रूढाश्च यौगिकाश्चेति ते त्रिधा ॥” “ते शब्दाः पुनस्त्रिधा भवन्ति । योगरूढाः पङ्कजादयः । पङ्कजनिडप्रत्ययैः पङ्कजनिकर्त्रभि- धाय केन योगेनापि पदार्थ एव प्रतिपाद्यते न कुमुमाद्यर्थ इति । योगार्थपुरस्कारेणापि रूढ्यर्थ एवेति योगरूढः । एवं ईश्वरसङ्केत- महिम्ना झटिति पद्मस्यैव स्मृतेः ।” इत्यलङ्कार- कौस्तुभे २ किरणः ॥ (“योगरूढं नाम लक्षयति । ‘स्वान्तर्निविष्टशब्दार्थस्वार्थयोर्बोधकृम्मिथः । योगरूढं न यत्रैकं विनान्यस्यास्ति शाब्दधीः ॥’ यन्नाम स्वावयववृत्तिलभ्यार्थेन ममं स्वार्थस्या- न्वयबोधकृत् तन्नाम योगरूढं यथा पङ्कजकृष्ण- सर्पाधर्म्मादि तद्धि शान्तर्निविष्टानां पङ्कादि- शब्दानां वृत्तिलभ्येन पङ्कजनिकर्त्रादिना समं स्वशक्यस्य पद्मादेरन्वयानुभावकं पङ्कजमित्या- दितः पङ्कजनिकर्तृ पद्ममित्यनुभवस्य सर्व्वसिद्ध- त्वात् । इयांस्तु विशेषो यद्रूढमपि मण्डपरथ- कारादिपदं योगार्थविनाकृतस्य रूढ्यर्थस्येव रूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं मण्डपे शेते इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजयेदित्यादौ समुदितार्थस्य गृहादेर- योग्यत्वेनान्वयाबोधात् । योगरूढन्तु पङ्कजादि- पदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्या चावयवलभ्यार्थमेवानुभावयति नत्वन्यं व्युत्पत्ति- वैचित्र्यात्तथैव साकाङ्क्षत्वात् । अतएव पङ्कजं कुनुदमित्यत्र पङ्कजनिकर्तृत्वेन भूमौ पङ्कज- मुत्पन्नमित्यादौ च पद्मत्वेन पङ्कजपदस्य लक्षण- यैव कुमुदस्थलपद्मयोर्बोध इति वार्त्तिकम् । ननु पुष्पं पङ्कजेत्यादौ पङ्कजादेरन्वयस्याबोधात् बोधाच्च पङ्कजपुष्पमित्यादौ निर्विभक्तिकेन पङ्क- जादिपदेनोपस्थाप्यार्थस्यान्वयधीसामान्यं प्रत्येव तादृशपङ्कजादिपदोत्तरशब्दोपस्थाप्यत्वं तन्त्रम् एवं पुष्पं पङ्कजमित्यादौ अन्वयबोधदर्शनात्तदनु- रोधेन सविभक्तिकपङ्कजादिपदोपस्थाप्यार्थान्वय- बोधं प्रति स्वसमानविभक्तिकपदोपस्थाप्यत्वञ्च अतस्तदुपस्थापितस्य पङ्कजातादेः कथं पदा- न्तरानुपस्थापितं पद्मादावन्वय इति चेदपङ्कज- वृत्तिः सत्तेत्यादौ च व्यभिचारादुक्तव्युत्पत्तेः ‘स्खलदक्षरसंशीभि तरुण्यामुखपङ्कजम् ।’ इत्यादौ सङ्गोचेनेनि गृहाण । नच धेनुपदस्य धानकर्म्मत्वविशिष्टायां गवीवपङ्कजादिपदस्यापि पङ्कजातत्वादिविशिष्टपद्मादौ रूढिरेवास्तु नतु योगरूढिरिति साम्प्रतं अन्यत्र कॢप्तशक्तिभ्यः पङ्कजन्यादिपदेभ्य एवाकाङ्क्षादिसाचिव्येन पङ्कज- निकर्तृ त्वादेर्लाभसम्भवे तद्बिशिष्टस्य पद्मस्य गुरोः समुदायाशक्यत्वादनन्यलभ्यस्यैव शब्दार्थ- त्वात् । यद्यपि कर्तृवाचकडप्रत्यये एव पद्मत्व- विशिष्टस्य लक्षणया लाभसम्भवान्न पङ्कज- भागस्य तत्र शक्तिरुचिता प्रकारान्तरालभ्यस्यैव शब्दशक्यत्वमित्युक्तत्वात् कृतिवर्त्तमानत्वयोरि- वैकपदार्थयोरपि कर्तृपद्मयोर्मिथोऽन्वयस्य सम्भवित्वात् तथाप्यवयवानां शक्तेरग्रहे ग्रहेऽपि वा पद्मादौ तदर्थस्यान्वयधीविरोधिधीदशायां पङ्कजमस्तीत्यादितः पद्ममस्तीत्याद्यनुभवार्थ- मवश्यं पद्मत्वादिविशिष्टे पङ्कजादिभागस्य रूढिरुपेया इतरथा प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य- यार्थस्य पदार्थान्तरेणान्वयस्य व्युत्पन्नतया डप्र त्ययोपस्थापितस्यापि पद्मस्यास्तित्वादिना सहा- न्वयानुपपत्तेः । अतएव पङ्कजादिपदागृहीत- शक्तिकस्य पुंसः पङ्कजमस्तीत्यादितो जात्वपि कर्त्तास्तीत्याकारको नान्वयबोधः प्रत्ययमात्रोप- स्थाप्यस्य कर्त्तुरन्यत्रान्वये निराकाङ्क्षत्वादिति वक्ष्यते । किञ्चैवमेकाक्षरकोषावधृतशक्तिकानां कखादिप्रत्येकवर्णानामेव निरूढलक्षणया तत्त- दर्थानुभावकत्वसम्भवाद्बकनखादिसमुदायस्यापि तत्तदर्थे शक्तिर्व्विलीयेत कादिप्रत्येकवर्णस्य शक्ति- ग्रहं विनापि वकादिशब्दाद्वकादेरनुभवार्थं तत्र समुदाये शक्तिरिति तु प्रकृतेऽपि समानं डादि- प्रत्ययमात्रस्य पद्मादौ वृत्तिमत्त्वग्रहेऽपि पङ्क- जादिसमुदायात् पद्मादेरनुभवस्य सर्व्वसिद्ध- त्वात् । नचैवं चित्रगुरित्यादावपि चित्रगोस्वा- म्यादौ समुदायस्य शक्तिप्रसङ्गः समासत्वस्या- विशिष्टत्वादिति वाच्यम् अगृहीतावयववृत्तिकस्य पुंसस्ततोऽर्थानधिगमेनावयवानां कृत्तेरवश्या- पेक्षायां तेषामेव तथाविधार्थबोधकत्वौचित्यस्य वक्ष्यमाणत्वादिति । पङ्कजादिपदेभ्यः केवलस्यैव योगार्थस्य रूढ्य- र्थस्य वा बोधव्युदासार्थन्तादृशार्थयोर्मिथः साकाङ्क्षत्वनियमो न कल्प्यते परन्तु रूढ्यर्थभिन्ने योगार्थस्य बोधं प्रति रूढिधियः प्रतिबन्धकत्वं तेन रूढेरप्रतिसन्घानदशायामवयवशक्त्यैव पङ्कजं कुमुदमित्यादौ पङ्कजनिकर्तृत्वादिना कैरवादेरवगमस्तथावयवशक्तेरनुपस्थितौ समु- दायशक्त्यैव भूमौ पङ्कजमुत्पन्नमित्यादौ पङ्कत्व- प्रकारेण स्थलपद्मादेरतएव च तैलपदं योगेन तिलप्रभवं रूढ्या विलक्षणद्रव्यपर्य्यवसितं स्नेहं बोधयेद्योगरूढमपि तैलं पत्रमित्यादौ सर्षपस्य तैलमित्यादौ च शक्त्यैव प्रत्येकस्य बोधकमिति मीमांसकानान्मत्मुपन्यस्यति । ‘रूढ्यर्थभिन्ने योगार्थबुद्धौ रूढेर्विरोधिताम् । वदन्ति केचिदेकैकबुद्धिस्तैः क्वचिदिष्यते ॥’ क्वचित्समुदायावयवयोरेकमात्रस्य शक्तिप्रति- सन्धानस्थले यद्यपि पद्मान्यधर्म्मिकपङ्कजातत्वा- न्वयधीसामान्यं प्रति पङ्कजपदं पद्मशक्तमित्येवं रूढिज्ञानत्वेन न विरोधित्वं तादृशधीसत्त्वेऽपि कर्दमजादिशब्देभ्यस्ताद्रूप्येण कैरवादेरवगमात् नापि पङ्कजपदजन्यतादृशबोधं प्रत्येव तथा विरो- धित्वं रूढिज्ञानदशायामपि समुदायस्य लक्षणया शक्तिभ्रमेण वा पङ्कजपदात् पङ्कजातत्वेन कुमुद- बोधस्य सर्व्वैरुपगमात् तथाप्यवयवशक्त्या पङ्कज- पदजन्यपद्मान्यधर्म्मिकपङ्कजातत्वान्वयबोधं प्रत्येव रूढिज्ञानत्वेन प्रतिबन्धकत्वम् । नच कुमुद एव पद्मत्वेन रूढिभ्रमदशायां ताद्रूप्येण कुमुदस्य बोधो न स्याद्बिरोधिन्या रूढिधियः सत्त्वादिति वाच्यं पद्मान्यधर्म्मिकेत्यनेन पद्मत्वानवच्छिन्नविशे- ष्यताकत्वस्योक्तत्वात् । पद्मस्येव कुमुदस्यापि समुदायशक्यत्वधीदशायामवयवशक्त्या पङ्कजातं कुमुदमित्याकारकधीस्वीकारे तु कुमुदादिशक्तत्व ज्ञानाजन्यत्वे नापि प्रतिवध्यं विशेषणीयम् । नच यत्र तात्पर्य्यादिधीविलम्बादयोग्यताभ्रमादिना- प्रतिवन्धाद्बा रूढ्योपस्थिते पद्मे योगार्थस्य पङ्कजनिकर्त्तुरनन्वयस्तत्रावयवशक्त्या पङ्कजा- तत्वेन कुमुदादिवोधो न स्यात् विरोधिनो रूढिज्ञानस्य सत्त्वादिति वाच्यं मीमांसकाना- मिष्टत्वात् ते हि मण्डपं भोजयेत्यादावपि गृहादौ रूढिधीसत्त्वे मण्डपादिपदानामवयव- शक्त्या मण्डपानकर्त्तादेन मन्यन्ते वोधं भ्रमत्वा ग्रहानास्कन्दितस्येव रूढ्यर्थगोचरतत्तदयोग्य- ताज्ञानाद्यभावविशिष्टस्यैव रूढिज्ञानस्य विरो- धितायाः सुवचत्वाच्च । यदि च समुदाय एव पद्मत्वेन पङ्कजनिकर्तृत्वेन च शक्तेः प्रमाम्रमाभ्यां पङ्कजातं पद्ममित्याकारको बोधः प्रामाणिक- स्तदानीं च पङ्कजनिकर्तृत्वेन कुमुदस्य नान्व- यधीः तदावयवशक्त्येत्यपहाय पङ्कजपदघटक- शब्दशक्त्येति प्रतिबध्यकुक्षौ निक्षेपणीयं तद्घट- कत्वञ्चेह तद्विषयिताव्यापकविषयिताकत्वमात्रं तदवयव इव तत्राप्यविशिष्टम् । यत्तु स्वावयव- शक्त्या पङ्कजपदजन्यं पङ्कजकर्त्तृत्वेनान्वयबाधं प्रति पद्मत्वं हेतुस्तत्र कार्य्यस्य विशेष्यत्वं तदव- च्छेदकत्वं वा कारणस्य तु समवायस्तादात्म्यं वा प्रत्यासत्तिरित्येतावतैव योगार्थमर्य्यादया कुमुदादेर्बोधव्युदाससम्भवात् उक्तक्रमेण प्रति- बन्धकतायां मानाभाव पद्मत्वं पङ्कजप्रयो- गोपाधिरिति प्राचीनप्रवादस्याप्युक्तार्थ एव पर्य्यवसानादिति तत्तुच्छं पद्मागृहीतशक्तिक- स्यापि पुंसः पङ्कजनिकर्तृत्वेनावयवशक्त्या कुमु दस्य बोधानुदयप्रसङ्गात् नचेष्टापत्तिरनुभव- विरोधात् नच रूढिज्ञानकालीनमेव योगार्थस्य बोधं प्रत्युक्तरीत्या पद्मत्वस्य हेतुत्वं तथा सति रूढिधीदशायामपि तदसमानकालीनस्य पङ्कजातत्वेन कुमुदबोधस्य सामान्यसामग्री- महिम्रा दुर्व्वारतापत्तेः रूढिज्ञानासमानका- लीनतादृशबोधं प्रति विशेषतो हेत्वन्तरस्या- कॢप्तत्वात् तत्कल्पने चातिगौरवात् । यदपि पङ्कजननकर्तृषु पङ्कादिपदानां शक्तिसत्त्वेऽपि पङ्कजपदान्न ताद्रूप्येण बोधः परन्तु पद्मत्वमात्रेण योगार्थमर्य्यादया पङ्कजातत्वप्रकारकबोधसा- मान्यं प्रत्येव पद्मत्वविशेष्टे रूढिज्ञानस्य लाघ- वेन विरोधित्वात् पद्मान्यधर्म्मिकत्वादेर्गौरवेण प्रतिबध्यकोट्यप्रविष्टत्वादतो योगरूढं नामैव नास्ति युधिष्ठिरादिशब्दादपि रणस्थिरत्वादिकं योगार्थं परित्यज्यैव वैजात्वादिप्रकारेण कुन्ती- पुत्त्राद्यवगमात् । यदुक्तमभियुक्तैः । या वृत्तिरजहत्स्वार्था सेयमत्रोपपादिता । जहत्स्वार्था तु तत्रैव यत्र रूढिर्व्विरोधिनी । पङ्कजं मनसादेवी पद्मनाभो युधिष्ठिरः ॥ इति । तदेतद्वैयाकरणमतं पङ्कजमस्तीत्यादितः पङ्कजातं पद्ममस्तीत्याद्यनुभवस्य न्यायमीमां- सादिसकलतन्त्रसिद्धत्वेन गौरवस्य प्रामाणि- कत्वादनादेयमन्यथा अवयवशक्तेरपि प्रतिवध्य- तायामप्रवेशापत्तेर्लाघवे पङ्कजातत्वप्रकारक- शाब्दसामान्यं प्रत्येव रूढिधियः प्रतिबन्धकत्वस्य सुवचत्वात् । नन्वेवं द्रव्ये सरसिजमस्तीत्यादितो द्रव्यनिष्ठं सरोजमिव द्रव्याभिन्ने सरसि जातं पद्ममपि प्रतीयेत नामार्थयोरभेदान्वये तन्त्रस्य नाम्नोः समानविभक्तिकत्वस्यानयादिति चेत् सत्यं सविभक्तिकनामार्थस्य नामान्तरार्थान्वये वृत्तिशब्दैकदेशान्यैनैव समानविभक्तिकनामा- न्तरेण स्मारितत्वस्य तन्त्रतायाः स्वीकार्य्यत्वा- दिति । यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैः समधिगम्यते ॥ इति रूढ्यर्थयोगार्थयोर्युगपदुपस्थितौ तयो- राकाङ्क्षादिसाचिव्यादाहत्यान्वयबुद्धिस्थल एव योगार्थस्य रूढ्यर्थस्य वा नान्यत्रान्वयो नतु तयोरेव मिथः साकाङ्क्षत्वं अन्यत्र योगार्थस्य बोधने रूढिधियः प्रतिबन्धकत्वं वा प्रमाणा- भावात् एवञ्च यत्र योगरूढिलभ्यार्थयोस्तात्- पर्य्याद्यग्रहाद्बिरोधिसमवधानाद्बा न प्रथममन्व- यधीस्तत्र योगार्थमर्य्यादया पङ्कजातत्वेन कुमु- दादेः समुदायशक्त्या च पद्मत्वेन स्थलकमलस्य बोधो भवत्येवेति मणिकृन्मतं दर्शयति । ‘रूढ्यर्थेऽन्यत्र या यत्र यदाकाङ्क्षादिनिश्चयः । तदैव तत्र योगार्थस्यान्वयो मणिकृन्मतः ॥’ समुदायशक्त्युपस्थापिते पदान्तरवृत्त्युपस्थापिते वा यत्र धर्म्मिण्यवान्तरवृत्तिलभ्यार्थस्य यदा- काङ्क्षानिश्चयादिस्तदैव तत्र तथान्वयबोध उत्प- द्यते सम्भूतसामग्रीकत्वात् रूढ्यर्थभिन्ने योगार्थ- स्यान्वयबोधव्युदासाय तु रूढेर्योगापहारिता- प्रवादोरूढ्यर्थमात्रे योगार्थस्यान्वयबोधसामग्री- स्थलाभिप्रायक इति चिन्तामणिकृताम्मतम् । योगरूढं विभजते । ‘सामासिकं तद्धिताक्तमिति तत् द्बिविधं भवेत् । योगरूढं कृदन्तस्य समासत्वव्यवस्थितेः ॥’ तत् योगरूढं सामासिकं समासात्मकं कृष्ण- सर्पादि तद्धिताक्तं वासुदेवादि । कृदन्तस्य पङ्कजादियोगरूढस्य सामासिक एवान्तर्भाव इति नाधिक्यम् ॥ * ॥
)