संस्कृत-शब्दकोशः

योगिन् योगीश्वरी

योगीश्वर

वाचस्पत्यम्

योगीश्वर ||‍ पु० ६ त० । १ याज्ञवल्क्यमुगौ २ योगिनां श्रेष्ठे च । ३ दुर्गायां स्त्री ङीप् ।


शब्दकल्पद्रुमः

योगीश्वरः || पुं, (योगिनामीश्वरः ।)
याज्ञवल्क्य- मुनिः । (इति हेमचन्द्रे योगेशशब्ददर्शनात् । ३ । ८५१ ॥)
यथा, —
“योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्म्मानशेषतः ॥” “योगिनां सनकादीनां ईश्वरः श्रेष्ठस्तं याज्ञ- वल्क्यं संपूज्य ।” इति मिताक्षरा ॥ त्रि, यगिनां श्रेष्ठः । (यथा, मार्कण्डेये । ९६ । २८ । “यजन्ति यानस्तमलैर्मनोभि- र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥”)



Correction: