शब्दकल्पद्रुमः
योगेशः || पुं, (योगस्य ईशः ईश्वरः ।) याज्ञ- वल्क्यः । इति हेमचन्द्रः । ३ । ८५१ ॥ (योगे- श्वरे, त्रि । यथा, भागवते । ४ । १९ । ६ । “कपिलो नारदो दत्तो यगेशाः सनकादयः । तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥”)