वाचस्पत्यम्
योगेश्वर || पु० ६ त० । १ श्रीकृष्णे “योगेश्वरं! ततो मे त्वं दर्शयात्मानव्ययम्” गीता । २ दुर्गायां च ३ बन्ध्याकर्कोट्यां स्त्री भावप्र० ङीप् ।
शब्दकल्पद्रुमः
योगेश्वरः || पुं, (योगानां ईश्वरः ।)
श्रीकृष्णः । यथा, —
“ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म्मवर्म्मणि । स्वां काष्ठामधुनोपेते धर्म्मः कं शरणं गतः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ (शिवः । यथा, महाभारते । १३ । १४ । ३२३ । “नमस्ते भगवन् देव ! नमस्ते भक्तवत्सल ! । योगेश्वर ! नमस्तेऽस्तु नमस्ते विश्वसम्भव ! ॥” देवहोत्रतनयः । यथा, भागवते । ८ । १३ । ३२ । “देवहोत्रस्य तनय उपहर्त्ता दिवस्पतेः । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥”