योगेश्वरी
योग्य
योगेष्ट
वाचस्पत्यम्
योगेष्ट || न० योगाय योजनार्थमिष्टम् । सीसके अमरः ।
शब्दकल्पद्रुमः
योगेष्टं || क्ली (योगे सन्धिच्छिद्रादिपूरणे इष्टम् ।)
सीसकम् । इत्यमरः । २ । ९ । १०५ ॥ (तथास्य पर्य्यायः । “नागं महाबलं चीनं पिष्टं योगेष्टसीसकम् ॥” इति वैद्यकरत्नमालायाम् ॥)