संस्कृत-शब्दकोशः

योगेष्ट योग्यता

योग्य

वाचस्पत्यम्

योग्य ||‍ त्रि० योगमर्हति यत् युज—ण्यत् वा । १ योगार्हे २ उचिते ३ निपुणे ४ शक्ते च । ५ पुष्यनक्षत्रे पु० मेदि० । ६ ऋद्धिनामौषधे न० अमरः ।


शब्दकल्पद्रुमः

योग्यं || क्ली (योज्यत इति । युज् + णिच् + ण्यत् ।)
ऋद्धिनामौषधम् । वृद्धिनामौषधम् । इत्य- मरः । २ । ४ । ११२ ॥


शब्दकल्पद्रुमः

योग्यः || त्रि (योगाय प्रभवति । योग् + “योगाद्- यच्च ।” ५ । १ । १०२ । इति यत् ।)
प्रवीणः । योगार्हः । (यथा, रघुः । ६ । २९ । “कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि ! तयोस्तृतीया ॥”)
उपायी । शक्तः । इति मेदिनी हेमचन्द्रश्च ॥ (यथा, मार्कण्डेये । ७१ । १० । “अपत्नीको नरो भूप न योग्यो निजकर्म्म- णाम् ॥” योजनसाधनभूतः । यथा, ऋग्वेदे । ३ । ६ । ६ । “ऋतस्य वा केशिना योग्याभिः ।” “योग्याभिर्योजनसाधनभूताभी रज्जुभिः ।” इति सायणः ॥ शकटादियोजनीयः । यथा, शत- पथब्राह्मणे । १ । ३ । १ । १३ । “योक्त्रण हि योग्यं युञ्जन्त्यस्ति वै पत्न्या अमेध्यं यदवाचीनम् ।” “योग्यं योजनीयमनडुदश्वादिकम् ।” इति तद्भाष्यम् ॥)
पुष्यनक्षत्रे, पुं । इति मेदिनी । ये, ४९ ॥



Correction: